________________
७०
श्रीजैनधर्मवरस्तोत्रम् अतो मुनिः प्राह-हे हलिन् ! निष्कलङ्कोऽयं ढेलडकदेवो जिनो वीतरागः सदा त्वया एकाग्रमनसा सेवनीयः जलादिपूजया, युगन्धर्यादिधान्यकणाः शुद्धा अग्रे मोच्याः । त्रिसन्ध्यं यो(?)करणं कर्तव्यम् । ततो मुनिवचसा तेन नित्यमेवं कर्तव्यमित्यभिग्रहो गृहीतः । मुनिस्त्वन्यत्र विनहार । अथो हली प्रभुसेवनमेवं कुर्वाण एकदा राजदेयभागदेयार्थ रुद्धः । एकविंशतिर्दिवसा जाताः । सेवां विना जलमपि तेन न गृहीतम् । ततो ग्रामाधीशेन मुक्तः। द्वाविंशतितमे दिवसे तृद्क्षुधातुरोऽपि श्रद्धाभक्तिवशतः प्रथमं प्रभुसेवनार्थ प्रभुसमीपमागतः । तस्मिन्नेवावसरेऽधिष्ठायिकयाऽम्बिकया तद्भक्तिशक्तिं विलोक्य जिनविम्बं नवीनघुसणविलेपनपुष्पभूषणालङ्कृतं कृतम् । ततः स कृषीवलस्तद् बिम्बं तथाविधं दृष्ट्वाऽनुभूतपूर्वमिति चिन्त्यमानो जातजातिस्मृतिः दृष्टभवत्रयः (जातः), तद्यथा-पूर्व मवन्त्यां' पुर्या दयालाभिधो धनी जैनः श्रावको नित्यं जिनपूजां करोति साधून प्रतिलाभयति । शुद्धाहारेण कालान्तरे निष्कषायगुरोः समीपे दीक्षां गृहीत्वा सिद्धान्तमधीत्य प्रान्ते चारित्रं विराध्य मृत्वा ज्योतिष्कसुरो भूत्वा च्युतोऽत्र कौटुम्बिको जातोऽहम् । अहो! कर्मणां गतिः। ततो जिनस्वरूपं ध्यायन क्षपकश्रेणिमारूढः केवलज्ञानं प्राप । सन्निहितदेवैः कृतकनककमलारूढो भव्येभ्यो देशनां ददौ । तत्रान्यत्र च बहून् भव्यजीवान् प्रतिबोध्य शिवं ययाविति द्रव्यस्तवाधिकारे सगड(शकड ?)कथानकं समाप्तम् । इत्यष्टादशवृत्तार्थः ॥ १८॥
सूत्रम्
नित्यं प्रसन्नवदनां महितां सुजैनी
द्रव्यैः शुभै रुचिल ! कल्पलतोपमानाम् । यः सेवते न मलिनो ह्यधनो भवेत् स
किं वा विबोधमुपयाति न जीवलोकः ? ॥ १९ ॥ व्याख्या हे 'रुचिल!' रुचिं-धर्माभिलाष लाति-गृह्णाति इति हे धर्माभिलाषिन् ! यः प्राणी नित्यं सुजैनी-व्यङ्गादिदोषरहितां शुभजिनप्रतिमां द्रव्यैः-चन्दनादिभिः महितां-पूजितां सेवतेध्यानाश्रयं करोति । कथंभूतैः द्रव्यैः? 'शुभैः' निर्दूषणघुसृणपुष्पादिभिः । कथंभूतां सुजैनीम् ? प्रसनवदनां-हसन्मुखपङ्कजाम् । पुनः कथं० सुजैनी ? कल्पलतोपमानां-सेवकानां मनोवाञ्छितदाने कल्पवृक्षसमानाम् । हि इति निश्चितं स जीवलोकः-स संसारी प्राणी मलिनो न भवेत् , अधनो न भवेत् । वा-अथवा स जीवलोकः विवोधं किं न उपयाति ? अपि तु प्रतिबोधं प्रामोत्येव । अथ प्रतिलोमार्थमाह-यः जीवलोकः सुजैनी न सेवते स जीवलोको मलिनः-सपापो भवेत्
. 'वाऽनिबोध' इत्यर्थान्तरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org