Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ प्रस्तावना श्रीभावप्रभसूरीश्वराणां परिचितिः इमे श्री भावप्रभसूरयः कर्हि कं मण्डलं मण्डयाञ्चक्रिवांसः केषां सन्निधौ पारमेश्वरीं प्रव्रज्यां जगृहुः कांस्कान् ग्रन्थान् जग्रन्थुरिति जिज्ञासावृन्दे विमर्शपथपान्थतां प्राप्ते सति तत्तृप्यर्थं क्रियते साधनानुसारं प्रयासोऽयं मया मन्दमेधसा । तावत् श्रीजैनधर्मवरस्तोत्रस्य खोपज्ञवृत्तेः प्रान्तस्थे - नोले नावगम्यते यदि मे सूरिवराः श्री ' ऊकेश' वंशज्ञातीय 'वाणी' गोत्रसाहाश्री माण्डणपत्लीवा - ह्निमदेवीकुक्षेः समुत्पन्नाः । एतेषां जन्मस्थलसमयादिवृत्तान्तो न मे दृष्टिपथं श्रुतिमार्ग वाऽऽगतः । दीक्षासमयेऽभिधानम् - एतेषां सूरिपदप्राप्तिपूर्वं भावरलेति नामासीत् । तत्र एभिर्विरचितस्य श्रीनेमिभक्तामरस्य खोपटीका (पृ. १६३ ) गता निम्नलिखिता पङ्किः प्रमाणम् "एतद्विशेषणेन शिष्यावस्थायां भावरत्न इति निजनाम कविना दर्शितम् । सूरिपदप्राप्तौ तु भावप्रभ इति नाम लब्धमिति । " सूरिपदम् - एतेषां सूरिपदवीप्रदानमहोत्सवोऽकारि १७७२तमवैक्रमीयहायनस्य माघमासस्य शुक्ले पक्षे श्राद्धरत्नश्री तेजसी श्रेष्ठिवरेण स्वद्रव्यव्ययेनेति ज्ञायते श्रीजैनधर्मवरस्तोत्रस्य स्वोपज्ञवृत्तेः प्रान्तभागावलोकनेन । समर्थ्यते चेदं न्यायाचार्य - न्याय विशारद वाचकपुङ्गव - श्रीमद्यशोविजयगणिगुम्फितस्य प्रतिमाशतकस्य लघुवृत्तेः प्रशस्तिगतेन निम्नलिखितेन पद्ययुगलेन"श्री ' श्री मालि' सुवीरवंशकमले श्रीराजहंसोपमो रामाकुक्षिसमुद्भवो जयतसीदेहाङ्गजो दीप्तिमान् । tatasखिलसाधुकार तिलकः श्रीतेजसी श्रेष्ठिराट् तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः ॥ ६॥ सूरिभावप्रभेणारयां, तेनानाभोगतो मया । वृत्तौ पृथक्कृतायां यत्, तच्छोध्यं विबुधैरसत् ॥ ७ ॥" सूरिवरपरिवार: कैः कैर्गुरुबान्धवैः शिष्यैः प्रशिष्यैश्व सार्धमिमे पूर्णिमागच्छीयाः सूरिशार्दूलाः सौवपादपद्मः पावयामासुः पृथ्वीपीठमिति पर्यालोचने प्रवृत्ते यदवगतं तन्निवेद्यते, यथा १ अनेन समाननामधेयेन वा 'देवधर्मपरीक्षाप्रतिः समलेखि याऽधुना पालीताणागत' श्रीभानंदजी कल्याणजीपेढी' भाण्डागारे वर्तते । २ अश्या रचनासमयोऽवगम्यते निम्नलिखितपद्यप्रेक्षणेन - Jain Education International “भ्यङ्काश्वभू ( १७९३)मिते वर्षे, माघशुक्लाष्टमी तिथौ । वारे देवगुरौ जाता, पूर्णेयं वृत्तिरुत्तमा ॥ ८ ॥" For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 200