________________
प्रस्तावना
श्रीभावप्रभसूरीश्वराणां परिचितिः
इमे श्री भावप्रभसूरयः कर्हि कं मण्डलं मण्डयाञ्चक्रिवांसः केषां सन्निधौ पारमेश्वरीं प्रव्रज्यां जगृहुः कांस्कान् ग्रन्थान् जग्रन्थुरिति जिज्ञासावृन्दे विमर्शपथपान्थतां प्राप्ते सति तत्तृप्यर्थं क्रियते साधनानुसारं प्रयासोऽयं मया मन्दमेधसा । तावत् श्रीजैनधर्मवरस्तोत्रस्य खोपज्ञवृत्तेः प्रान्तस्थे - नोले नावगम्यते यदि मे सूरिवराः श्री ' ऊकेश' वंशज्ञातीय 'वाणी' गोत्रसाहाश्री माण्डणपत्लीवा - ह्निमदेवीकुक्षेः समुत्पन्नाः । एतेषां जन्मस्थलसमयादिवृत्तान्तो न मे दृष्टिपथं श्रुतिमार्ग वाऽऽगतः । दीक्षासमयेऽभिधानम् -
एतेषां सूरिपदप्राप्तिपूर्वं भावरलेति नामासीत् । तत्र एभिर्विरचितस्य श्रीनेमिभक्तामरस्य खोपटीका (पृ. १६३ ) गता निम्नलिखिता पङ्किः प्रमाणम्
"एतद्विशेषणेन शिष्यावस्थायां भावरत्न इति निजनाम कविना दर्शितम् । सूरिपदप्राप्तौ तु भावप्रभ इति नाम लब्धमिति । "
सूरिपदम् -
एतेषां सूरिपदवीप्रदानमहोत्सवोऽकारि १७७२तमवैक्रमीयहायनस्य माघमासस्य शुक्ले पक्षे श्राद्धरत्नश्री तेजसी श्रेष्ठिवरेण स्वद्रव्यव्ययेनेति ज्ञायते श्रीजैनधर्मवरस्तोत्रस्य स्वोपज्ञवृत्तेः प्रान्तभागावलोकनेन । समर्थ्यते चेदं न्यायाचार्य - न्याय विशारद वाचकपुङ्गव - श्रीमद्यशोविजयगणिगुम्फितस्य प्रतिमाशतकस्य लघुवृत्तेः प्रशस्तिगतेन निम्नलिखितेन पद्ययुगलेन"श्री ' श्री मालि' सुवीरवंशकमले श्रीराजहंसोपमो
रामाकुक्षिसमुद्भवो जयतसीदेहाङ्गजो दीप्तिमान् । tatasखिलसाधुकार तिलकः श्रीतेजसी श्रेष्ठिराट्
तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः ॥ ६॥ सूरिभावप्रभेणारयां, तेनानाभोगतो मया ।
वृत्तौ पृथक्कृतायां यत्, तच्छोध्यं विबुधैरसत् ॥ ७ ॥" सूरिवरपरिवार:
कैः कैर्गुरुबान्धवैः शिष्यैः प्रशिष्यैश्व सार्धमिमे पूर्णिमागच्छीयाः सूरिशार्दूलाः सौवपादपद्मः पावयामासुः पृथ्वीपीठमिति पर्यालोचने प्रवृत्ते यदवगतं तन्निवेद्यते, यथा
१ अनेन समाननामधेयेन वा 'देवधर्मपरीक्षाप्रतिः समलेखि याऽधुना पालीताणागत' श्रीभानंदजी कल्याणजीपेढी' भाण्डागारे वर्तते ।
२ अश्या रचनासमयोऽवगम्यते निम्नलिखितपद्यप्रेक्षणेन -
Jain Education International
“भ्यङ्काश्वभू ( १७९३)मिते वर्षे, माघशुक्लाष्टमी तिथौ । वारे देवगुरौ जाता, पूर्णेयं वृत्तिरुत्तमा ॥ ८ ॥"
For Private & Personal Use Only
www.jainelibrary.org