SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना एतेषां लक्ष्मीरत्ननामा ज्येष्ठगुरुबन्धुरिति समवगम्यते अम्बडतापसरासकस्य प्रान्तभागगतेन निम्नलिखितेन काव्येन "वडा गुरुभ्राता तेहना कहीहं लक्ष्मीरतन इंणें नांमें है तिणे श्रीपूज्यनइ वीनती कीधी रास रच्यो प्रकांमें हे" समर्थ्यते चेदं श्रीराजविजयसत्कायाः 'सप्तपदा 'प्रतेः प्रान्तस्थेन उल्लेखेन । स चायम् "संवत् १७५३ वर्षे शुक्लपक्षे पोस सुदी १५ वाररवौ ॥ तदिने श्रीपाटणमध्ये कृतचातुर्मासके श्रीपूर्णिमापक्षे । प्रधानशापायां ॥ भट्टारक १०८ श्रीश्रीमहिमाप्रभसूरि ॥ तत्शिष्यसुविनेयी ॥ मुनिलक्ष्मीरत्नलिवीकृत्य"। लालजीत्याह्वयोऽपरो गुरुबन्धुरिति ज्ञायते प्रो० पिटर्सन (१८८६-९१)रिपोर्टसञ्जकपुस्तकस्थेनोल्लेखेन । स च यथा "तत्पट्टे भट्टारकश्रीश्रीश्रीश्रीमहिमाप्रभु(भ)सरिः। तत्सि(च्छि)ष्य सुविनेयी(यि)मुनिलालजीकेनेयं पुस्तिका लिखिता" भाणरत्ननामधेय एको विनेय इति प्रतीयते 'जैनधर्मवरस्तोत्र'स्य खोपज्ञवृत्तेः प्रान्तस्थेन निम्नसूचितेन पाठेन द्वितीयो ज्योतीरत्नाह्वय इति ज्ञायते प्रतिमाशतकस्य लघुवृत्तिगतेन निम्नलिखितेन पाठेन "इति श्रीमत्पूर्णिमागच्छीयभट्टारकश्रीभावप्रभसूरिसमुद्धृता 'प्रतिमाशतक'लघुवृत्तिरिय शिष्यज्योतीरत्नस्य हेतवे सम्पूर्णा" । हेमचन्द्राभिधस्तृतीयश्छात्र आसीदित्यनुमीयते सभाचमत्कारस्य निम्नोल्लिखितया पङ्क्त्या "महिमाप्रभसूरीश तेहना विनेयी भावे कह्या एक एकथी करी दुगुणा हेमचंद हेते वह्या" सूरिवराणां गुरुपरम्परा-- एतेषां कविवराणां गुरुपरम्पराऽवगम्यते बुद्धिलविमलासतीरासगतेनोल्लेखेन । स चायम् ""प्रधान' साषा जीहां सोभति पूर्निम गच्छ हो जगमांहि प्रसीद्ध श्रीविद्याप्रभ सूरीसरा भट्ट जीति हो वादि पद लीध शी० ८ तस पट उदयाचल रवि भट्टारक हो ललीतप्रभसूरींद ललीत वाणी जेहनी सूंणी भवि भाने हो भव भवना फंद शी० ९ पूर्वनिर्दिष्टस्य सङ्कलितस्य प्रशस्तिसङ्गहस्याधारेण कृतोऽयमल्लखो मया। लेखकदोषपरिहारार्थ न क्रियते प्रयासोऽत्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy