Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 22
________________ १३ प्रमाणनयतत्त्वालोकः न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥७४॥ परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ।।७५।। सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥७६॥ ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात्, य: प्रयत्नानन्तरीयकः, स परिणतिमान्, यथा स्तम्भः । यो वा न परिणतिमान्, स न प्रयत्नान्तरीयकः यथा वान्ध्येयः । प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्म्यण वैधर्मेण च ॥७॥ अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥७८॥ भविष्यति वर्षं तथाविधवारिवाहविलोकनादिति कारणस्य ॥७९॥ उदेष्यति मुहूर्तान्ते तिष्यतारकाः, पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥८०॥ उदगुर्मुहूर्तात्पूर्वं पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥८१॥ अस्तीह सहकारफले रूपविशेषः, समास्वाद्यमानरसविशेषादिति सहचरस्य ॥८२॥ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥८३॥ तत्राद्या स्वभावविरुद्धोपलब्धिः ॥८४॥ यथा नास्त्येव सर्वथैकान्तोऽनेकान्तोपलम्भात् ॥८५। प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्ध्यः षट् ॥८६॥ विरुद्धव्याप्तोपलब्धिर्यथा नास्ति अस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् ॥८७॥ विरुद्धकार्योपलब्धिर्यथा-न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेः (दर्शनात्) ॥८८॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80