Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
षड्दर्शनसमुच्चयः
रोलम्ब-गवल-व्याल-तमाल- मलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवम्प्रायाः पयोमुचः ||२०|| कार्यात्कारणानुमानं यच्च तत् शेषवन्मतम् । तथाविधनदीपूराद् देवो वृष्टो यथोपरि ॥२१॥ यच्च सामान्यतोदृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥
प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३॥ शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं त्वात्मदेहाद्यं बुद्धीन्द्रियसुखादि च ॥ २४॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात् तत्तु साध्यं प्रयोजनम् ॥ २५ ॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥२६॥
प्रतिज्ञा - हेतु - दृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः सन्देहोपरमो भवेत् ॥२७॥ यथा काकादिसम्पातात्स्थाणुना भाव्यमत्र हि । ऊर्ध्वं सन्देह - तर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥ आचार्यशिष्ययोः पक्ष प्रतिपक्ष परिग्रहात् । या कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥ २९ ॥ विजिगीषुकथा या तु छलजात्यादिदूषणा । स जल्पः वितण्डा तु या प्रतिपक्षवर्जिता ॥३०॥
५९

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80