Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 71
________________ ६२ जैनदर्शनप्रवेशकः बद्धस्य कर्मणः साटो यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ एतानि नव तत्त्वानि यः श्रद्धाते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथाभव्यत्वपाकेन यस्यैतत्त्रितयं भवेत् । सम्यग्ज्ञान-क्रियायोगाज्जायते मोक्षभाजनम् ॥५४॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥५५॥ अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥ ५६ ॥ येनोत्पाद-व्यय- ध्रौव्ययुक्तं यत् तत् सदिष्यते । अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥५७॥ जैनदर्शनसंक्षेप इत्येष गदितोऽनघः । पूर्वापरपराघातो यत्र क्वापि न विद्यते ॥५८॥ वैशेषिकदर्शनम् देवताविषयो भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वे तु विद्यतेऽसौ निदिश्यते ॥५९॥ द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं तु तन्मते ॥ ६०॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च गुणाः पुनः पञ्चविंशतिधा ॥ ६१ ॥ स्पर्श-रस-रुप-गन्धाः शब्दः सङ्ख्या विभाग - संयोगे । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥६२॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80