Page #1
--------------------------------------------------------------------------
________________
1 EESTISSEMENT
YYYY YYYY
YY
A
LBRITISEMINISMETASTERTERSITERAL
जैनदर्शनप्रवेशकः
थन ज्ञान भंडार
દજી બેડાવાળા ભવન, નરમતી, અમદાવાદ-૫ |
मुनिश्री वैराग्यरतिविजयजी
Page #2
--------------------------------------------------------------------------
________________
श्रीविजयमहोदयसूरिग्रन्थमाला-२४
जैनदर्शनप्रवेशकः
(मूलग्रन्थसङ्ग्रहः)
* संपादक 2 तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां विनेयः
मुनिः वैराग्यरतिविजयः
प्रवचन प्रकाशन ४४८, रविवार पेठ
......पूना-२
Page #3
--------------------------------------------------------------------------
________________
ग्रन्थनाम
श्रीविजयमहोदयसूरिग्रन्थमाला-२४ : जैनदर्शनप्रवेशकः : मुनि वैराग्यरतिविजय
संपादकः
प्रकाशकः
: प्रवचन प्रकाशन-पूना
आवृत्तिः
: प्रथमा
मूल्य
:
रु. ३०-००
: PRAVACHAN PRAKASHAN, 2009
प्राप्तिस्थान
पूना
अहमदाबाद
: प्रवचन प्रकाशन
४८८, रविवार पेठ, पूना-४११००२ फोन : ०२०-६६२०८३४३, मो. ९८९००५५३१० Email : pravachanprakashan@gmail.com
website : www.pravachanprakashan.org : सरस्वती पुस्तक भंडार
हाथीखाना, रतनपोल, अहमदाबाद-३८०००१ फोन : २५३५६६९२ अशोकभाई घेलाभाई शाह २०१, ओएसीस, अंकुर स्कूल सामे, पालडी, अहमदाबाद-३८०००७
फोन : ०७९-२६६३३०८५, मो. ९३२७००७५७९ : विरति ग्राफिक्स, अहमदाबाद
फोन : ०७९-२२६८४०३२
अक्षरांकन
Page #4
--------------------------------------------------------------------------
________________
પ્રકાશકીય...
તેનલન પ્રવેશ આપના કરકમળમાં મૂકતા આનંદ અનુભવાય છે.
શાસ્ત્રબોધમાં સહાયક બનતા ગ્રંથોને પ્રકાશિત કરવાનું સદ્ભાગ્ય અમને સાંપડે છે.
વિદ્વાનો અને સંશોધન સંસ્થાઓ દ્વારા મળતા આવકારથી અમારી છાતી ગજગજ ફૂલે છે.
- પ્રવચન પ્રકાશન
Page #5
--------------------------------------------------------------------------
________________
પુરોવચન
| દર્શન એટલે તર્કશુદ્ધ અને પ્રમાણસિદ્ધ વિચાર. નરી આંખે ન દેખાતી વ્યવસ્થાને સમજવાનો પ્રયાસ દર્શન દ્વારા થાય છે. આત્મા, જગત, આત્મા અને જગત વચ્ચેનો સંબંધ અને આત્માની શુદ્ધ અવસ્થા વગેરે દર્શનશાસ્ત્રના વિષય છે.
ભારતવર્ષમાં અનેક દર્શનો પ્રચલિત છે. ભગવાનની સ્યાદ્વાદમય દેશનાના એક અંશને ગ્રહણ કરી આ દર્શનોએ પોતાના મતની માંડણી કરી છે. આ દરેક દર્શન એકબીજાથી ભિન્ન અને વિરુદ્ધ છે. અનેકાંત દર્શન સર્વદર્શનના સમૂહ સ્વરૂપ છે. જૈનદર્શનના અભ્યાસથી સર્વદર્શનના મૂળભૂત તત્ત્વોનો અભ્યાસ થઈ જાય છે.
કોઈપણ શાસ્ત્રનો અભ્યાસ ત્રણ તબક્કામાં થવો જોઈએ. એક, તે શાસ્ત્રના મૂળ શબ્દો કંઠસ્થ હોવા જોઈએ. બે, તે શાસ્ત્રના મુખ્ય પદાર્થો ઉપસ્થિત રહેવા જોઈએ. ત્રણ, તે શાસ્ત્રમાં કરવામાં આવેલી વિચારણા પર ચિંતન થવું જોઈએ. આ રીતે અભ્યાસ કરવાથી તે શાસ્ત્ર “સ્થિર પરિચિત થાય છે.
વિચાર ચંચળ અને અસ્થિર છે. વિચારને મગજમાં બાંધી રાખવા માટે “શબ્દ” શ્રેષ્ઠ માધ્યમ છે. અર્થાત્મક વિચાર શબ્દ દ્વારા સ્થિર કરી શકાય છે. આ માટે જ શાસ્ત્રોને કંઠસ્થ કરવાની પરંપરા પ્રચલિત થઈ છે. શબ્દ દ્વારા સ્થિર બનેલા અર્થનું ચિંતન સહજ બને છે.
આપણે ત્યાં પ્રકરણો અને આગમો કંઠસ્થ કરવાની પરંપરા છે તેમ દર્શનશાસ્ત્ર પણ કંઠસ્થ કરવું જોઈએ. દર્શનશાસ્ત્ર કેવળ સમજી લેવાથી પરિચિત થઈ જાય છે એવું નથી. તેને સ્થિર કરવા મૂળ ગ્રંથો કંઠસ્થ હોવા જરૂરી છે.
Page #6
--------------------------------------------------------------------------
________________
આ સંચયમાં જૈનદર્શનના પ્રવેશક શાસ્ત્રોનો સંગ્રહ છે. પૂ. શ્રીસિદ્ધસેનદિવાકરસૂરિજી મહારાજાથી લઈને મહોપાધ્યાય શ્રીવિનયવિજયજી ગણિવર સુધીના સમર્થ શાસ્ત્રકારોના પ્રમાણ વિષયક ગ્રંથોનું અહીં સંકલન કરવામાં આવ્યું છે.
જૈનદર્શનનો પ્રાથમિક પરિચય કેળવવાની ઈચ્છા ધરાવતા જિજ્ઞાસુઓ માટે પણ આ સંગ્રહ ઉપકારક બનશે.
આ સંગ્રહમાં કુલ છ ગ્રંથોનો સમાવેશ છે. તે બધા જ અથવા તો તેમાંનો એકાદ ગ્રંથ પણ કંઠસ્થ હોય તો જૈનદર્શનની વ્યુત્પત્તિ સરળ બનશે. જીવવિચારની જેમ એકાદ દર્શનશાસ્ત્રનો પદાર્થ ગ્રંથ કંઠસ્થ કરવાની પરંપરા હોવી જોઈએ.
પ્રવચનપ્રભાવક પૂજ્યપાદ આચાર્યદેવ શ્રીમવિજયકીર્તિયશસૂરીશ્વરજી મહારાજ સાહેબના પ્રશિષ્યરત્ન પૂજય મુનિરાજશ્રી કૃતિયશવિજયજી મ.સા. એ આ સંકલનમાં રુચિ વ્યક્ત કરી અને આના સંપાદનમાં સહકાર્ય કર્યું છે. તેમની શ્રુતભક્તિની અનુમોદના
આ સંકલન દર્શનશાસ્ત્રમાં પ્રવેશ કરવા ઇચ્છતા વિદ્યાર્થીઓને અને સંશોધકોને સહાયક બનશે તેવી આશા છે. ૨૦૬૫, ચૈત્ર વદ-૧૨ ગોલીવાલા ભવન
– વૈરાગ્યરતિવિજય સેલેસબરીપાર્ક, પૂના
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________
યુતપ્રેમી ૩
પરમ પૂજ્ય તપાગચ્છાધિપતિ શ્રીમવિજયરામચંદ્રસૂરીશ્વરજી મહારાજાના પટ્ટધર સિદ્ધાંતનિષ્ઠ સમતાનિધિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજયરવિચંદ્રસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન
પ્રવચનકાર પંન્યાસપ્રવર શ્રી જયદર્શનવિજયજી ગણિવરની નિશ્રામાં વિ.સં. ૨૦૬૪માં ખીમત યાત્રિકભવન પાલીતાણામાં
| કિંવરલી નિવાસી શૃંદાવી છગનલાલ વિલીચંદજી ક્ષારીયા પરિવાર
૧૯, અમીઝરા સોસાયટી, સાબરમતી, અમદાવાદ
હસ્તે-નવલભાઈ દ્વારા આયોજીત ચાતુર્માસમાં થયેલ જ્ઞાનદ્રવ્યની ઉપજમાંથી
આ શાસ્ત્રના પ્રકાશનનો લાભ લેવામાં આવ્યો છે.
Page #9
--------------------------------------------------------------------------
________________
१. न्यायावतारः
२. प्रमाणनयतत्त्वालोकः
३. प्रमाणमीमांसा:
४. सम्मतिसूत्रम्
५. नयकर्णिका
अनुक्रमणिका
६. षड्दर्शनसमुच्चयः
७. अन्ययोगव्यवच्छेदद्वात्रिंशिका
श्रीसिद्धसेनसूरिः
श्रीवादीदेवसूरिः
श्रीहेमचन्द्रसूरिः
श्रीसिद्धसेनसूरिः
उपा. श्रीविनयविजयजी म.
श्रीहरिभद्रसूरिः
श्रीहेमचन्द्रसूरिः
S
३१
३८
५४
५७
६६
Page #10
--------------------------------------------------------------------------
________________
श्रीसिद्धसेनदिवाकरसूरिकृतः
न्यायावतारः
प्रमाणं स्वपराभासि ज्ञानं, बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा, मेयविनिश्चयात् ॥१॥ प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥२॥ प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तद्व्यामोहनिवृत्तिः स्याद्व्यामूढमनसामिह ॥३॥ अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥४॥ साध्याविनाभुवो लिङ्गात्साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवत् ॥५॥ न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद्विरूद्धं वचनं यतः ॥६॥ सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् । प्रमाणं स्वान्यनिश्चायि, द्वयसिद्धौ प्रसिद्ध्यति ॥७॥
Page #11
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः दृष्टेष्टाव्यावृताद्वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥८॥ आप्तोपज्ञमनुल्लध्यमदृष्टेष्टविरोधकम् । तत्त्वोपेदशकृत्सार्वं शास्त्रं कापथघट्टनम् ॥९॥ स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थं मानमाख्यातं, वाक्यं तदुपचारतः ॥१०॥ प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥१२॥ साध्यविनाभुवो हेतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत् पक्षादिवचनात्मकम् ॥१३॥ साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ॥१४॥ अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः । प्रत्याय्यस्य भवेद्धेतुविरुद्धारेकितो यथा ॥१५॥ धानुष्कगुणसम्प्रेक्षिजनस्य परिविध्यतः । धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ॥१६॥ हेतोस्तथोपपत्त्या वा स्यात्प्रयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥१७॥ साध्यसाधनयोर्व्याप्तियत्र निश्चीयतेतराम् । साधर्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः ॥१८॥
Page #12
--------------------------------------------------------------------------
________________
न्यायावतारः
साध्ये निवर्तमाने तु साधनस्याप्यसम्भवः । ख्याप्यते यत्र दृष्टान्ते वैध\णेति स स्मृतः ॥१९॥ अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥ प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्षलिङ्गतः । लोक-स्ववचनाभ्यां च बाधितोऽनेकधा मतः ॥२१॥ अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसन्देहविपर्यासैस्तदाभता ॥२२॥ असिद्धस्त्वप्रतीतो यो, योऽन्यथैवोपपाद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥२३॥ साधर्म्यणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः साध्यादिविकलादयः ॥२४॥ वैधर्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥२५॥ वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् । दूषणं निरवद्ये तु दूषणाभासनामकम् ॥२६॥ सकलावरणमुक्तात्मकेवलं यत्प्रकाशते । प्रत्यक्षं सकलात्मसततप्रतिभासनम् ॥२७॥ प्रमाणस्य फलं साक्षादज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥२८॥ अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥२९।।
Page #13
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि । सम्पूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते ॥३०॥ प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥३१॥ प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका । सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥३२॥
Page #14
--------------------------------------------------------------------------
________________
श्रीवादिदेवसूरिकृतः प्रमाणनयतत्त्वालोकः
प्रथमः परिच्छेदः
प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥ स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणम्, अतो ज्ञानमेवेदम् ॥३॥ न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥४॥ न खल्वस्य स्वनिर्णीतौ करणत्वम् स्तम्भादेरिवाचेतनत्वात् ॥५॥ नाप्यर्थनिश्चितौ, स्वनिश्चितावकरणस्य कुम्भादेवि तत्राप्यकरणत्वात् ॥६॥ तद् व्यवसायस्वभावम्, समारोपपरिपन्थित्वात् प्रमाणत्वाद् वा ॥७॥ अतस्मिंस्तदध्यवसायः समारोपः ॥८॥ स विपर्ययसंशयानध्यवसायभेदात् त्रेधा ॥९॥ विपरीतैककोटिनिष्टङ्कन विपर्ययः ॥१०॥ यथा शुक्तिकायामिदं रजतमिति ॥११॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्श ज्ञानं संशयः ॥१२॥
Page #15
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः यथाऽयं स्थाणुर्वा पुरुषो वा ॥१३॥ किमित्यालोचनमात्रमनध्यवसायः ॥१४॥ यथा गच्छत्तृणस्पर्शज्ञानम् ॥१५।। ज्ञानादन्योऽर्थः परः ॥१६॥ स्वस्य व्यवसाय: स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभिमुख्येन, करिकलभकमहमात्मना जानामि ॥१७॥ कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत ? मिहिरालोकवत् ॥१८॥ ज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम् ॥१९॥ तदितरत्त्वप्रामाण्यम् ॥२०॥ तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्च ॥२१॥
द्वितीयः परिच्छेदः तद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥१॥ स्पष्टं प्रत्यक्षम् ॥२॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥३॥ तद् द्विप्रकारं-सांव्यवहारिकं पारमार्थिकं च ॥४॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥५॥ एतद् द्वितयमवग्रहेहावायधारणाभेदादेकशश्चतुर्विकल्पकम् ॥६॥ विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥७॥ . अवगृहीतार्थविशेषाऽऽकाङ्क्षणमीहा ॥८॥
Page #16
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः ईहितविशेषनिर्णयोऽवायः ॥९॥ स एव दृढतमावस्थाऽऽपन्नो धारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयाद् भेदः ॥११॥ कथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः ॥१२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतयाऽनुभूयमानत्वात् अपूर्वपूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥१३॥ . क्रमोऽप्यमीषामयमेव, तथैव संवेदनात्; एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च ॥१४॥ अन्यथा प्रमेयानवगतिप्रसङ्गः ॥१५॥ न खल्वदृष्टमवगृह्यते, न चानवगृहीतं संदिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, नाप्यनवेतं धार्यते ॥१६॥ क्वचित् क्रमस्यानुपलक्षणमेषामाशूत्पादात् , उत्पलपत्रशतव्यतिभेदक्रमवत् ॥१७॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥१८॥ तद् विकलं सकलं च ॥१९॥ तत्र विकलमवधिमनःपर्यायज्ञानरूपतया द्वेधा ॥२०॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥२१॥ संयमविशुद्धिनिबन्धनाद् विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥२२॥ सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥२३॥
Page #17
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः तद्वान् अर्हन् निर्दोषत्वात् ॥२४॥ निर्दोषोऽसौ, प्रमाणाविरोधिवाक्त्वात् ॥२५॥ तदिष्टस्य प्रमाणेनाऽबाध्यत्वात् तद्वाचस्तेनाविरोधसिद्धिः ॥२६॥ न च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम्, कवलाहारसर्वज्ञत्वयोरविरोधात् ॥२७॥
तृतीयः परिच्छेदः अस्पष्टं परोक्षम् ॥१॥ स्मरण-प्रत्यभिज्ञान-तर्कानुमानागमभेदतस्तत् पञ्चप्रकारम् ॥२॥ तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ॥३॥ 'तत्तीर्थकरबिम्बम्' इति यथा ॥४॥ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं, संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥५॥ "तज्जातीय एवायं गोपिण्डः", "गोसदृशो गवयः", "स एवायं जिनदत्तः" इत्यादि ॥६॥ उपलम्भानुपलम्भसम्भवं, त्रिकालीकलितसाध्यसाधनसम्बन्धालम्बनं, "इदमस्मिन् सत्येव भवति" इत्याद्याकारं संवेदनमूहापरनामा तर्कः ।।७।। यथा यावान् कश्चिद् धूमः, स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येव ॥८॥ अनुमानं द्विप्रकारं स्वार्थं परार्थं च ॥९॥ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥१०॥ निश्चातान्यथानुपपत्त्येकलक्षणो हेतुः ॥११॥
Page #18
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः न तु त्रिलक्षणकादिः ॥१२॥ तस्य हेत्वाभासस्यापि सम्भवात् ॥१३॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥१४॥ शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥१५॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् ॥१६॥ अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम् ॥१७॥ व्याप्तिग्रहणसमयाऽपेक्षया साध्यं धर्म एव अन्यथा तदनुपपत्तेः ॥१८॥ न हि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिव धरित्रीधरस्याप्यनुवृत्तिरस्ति ॥१९॥ आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी
॥२०॥
धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः, कुत्रचित्प्रमाणतः, क्वापि विकल्पप्रमाणाभ्याम् ॥२१॥ यथा समस्ति समस्तवस्तुवेदी, क्षितिधरकन्धरेयं धूमध्वजवती, ध्वनिः परिणतिमान् ॥२२॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२३॥ साध्यस्य प्रतिनियतधर्मिसम्बन्धिताप्रसिद्धये हेतोरुपसंहारवचनवत् पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः ॥२४॥ त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमङ्गीकुरुते ? ॥२५॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थं प्रत्यक्षं परप्रत्यक्षहेतुत्वात् ॥२६॥ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणी जिनपतिप्रतिमाम् ॥२७॥
Page #19
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः
पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम्
१०
॥२८॥
हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥ २९॥
सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः, असति साध्ये हेतोरनुपपत्तिरेवान्यथानुपपत्तिः ॥३०॥
यथा कृशानुमानयं पाकप्रदेशः, सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेः, असत्यनुपपत्तेर्वा ॥३१॥
अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः ||३२|| न दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः ॥३३॥
न च हेतोरन्यथानुपपत्तिनिर्णीतये, यथोक्ततर्कप्रमाणादेव तदुपपत्तेः ॥३४॥ नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थितेर्दुर्निवार: समवतारः ||३५||
नाप्यविनाभावस्मृतये, प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः ॥३६॥
अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ||३७||
पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्याप्तिः ॥३८॥
यथाऽनेकान्तात्मकं वस्तु, सत्त्वस्य तथैवोपपत्तेरिति, अग्निमानयं देशः धूमवत्त्वात्, य एवं स एवं यथा पाकस्थानमिति च ॥३९॥ नोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्यं पक्षहेतुप्रयोगादेव तस्याः - सद्भावात् ॥४०॥
Page #20
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः समर्थनमेव परप्रतिपत्त्यङ्गमास्तां, तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसम्भवात् ॥४१॥ मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥४२॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥४३॥ स द्वेधा साधर्म्यतो वैधयंतश्च ॥४४॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते, स साधर्म्यदृष्टान्तः ॥४५॥ यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसः ॥४६॥ यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्श्यते स वैधर्म्यदृष्टान्तः
॥४७॥
यथा-अग्न्यभावे न भवत्येव धूमः, यथा जलाशये ॥४८॥ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः ॥४९॥ यथा धूमश्चात्र प्रदेशे ॥५०॥ साध्यधर्मस्य पुनर्निगमनम् ॥५१॥ यथा-तस्मादग्निरत्र ॥५२॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५३॥ उक्तलक्षणो हेतुर्द्विप्रकार:-उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ॥५४॥ उपलब्धिविधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च ॥५५॥ विधिः सदंशः ॥५६॥ प्रतिषेधोऽसदंशः ॥५७॥ स चतुर्धा-प्रागभावः, प्रध्वंसाभाव, इतरेतराभावोऽत्यन्ताभावश्च ॥५८॥
Page #21
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः यन्निवृत्तावेव कार्यस्य समुत्पत्तिः, सोऽस्य प्रागभावः ॥५९।। यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥६०॥ यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः, सोऽस्य प्रध्वंसाभावः ॥६॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥६२॥ स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः ॥६३॥ यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः ॥६४॥ कालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ॥६५॥ यथा चेतनाचेतनयोः ॥६६॥ उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च ॥६॥ तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥६८॥ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिः ॥६९॥ तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्र्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं च ॥७०॥ पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ, तयोः कालव्यवहितावनुपलम्भात् ॥७१॥ न चातिक्रान्तानागतयोर्जाग्रदशासंवेदनमरणयोः प्रबोधोत्पतौ प्रति कारणत्वं, व्यवहितत्वेन निर्व्यापारत्वात् ॥७२॥ स्वव्यापारापेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था, कुलालस्येव कलशं प्रति ॥७३॥
Page #22
--------------------------------------------------------------------------
________________
१३
प्रमाणनयतत्त्वालोकः न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥७४॥ परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ।।७५।। सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥७६॥ ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात्, य: प्रयत्नानन्तरीयकः, स परिणतिमान्, यथा स्तम्भः । यो वा न परिणतिमान्, स न प्रयत्नान्तरीयकः यथा वान्ध्येयः । प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्म्यण वैधर्मेण च ॥७॥ अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥७८॥ भविष्यति वर्षं तथाविधवारिवाहविलोकनादिति कारणस्य ॥७९॥ उदेष्यति मुहूर्तान्ते तिष्यतारकाः, पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥८०॥ उदगुर्मुहूर्तात्पूर्वं पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥८१॥ अस्तीह सहकारफले रूपविशेषः, समास्वाद्यमानरसविशेषादिति सहचरस्य ॥८२॥ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥८३॥ तत्राद्या स्वभावविरुद्धोपलब्धिः ॥८४॥ यथा नास्त्येव सर्वथैकान्तोऽनेकान्तोपलम्भात् ॥८५। प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्ध्यः षट् ॥८६॥ विरुद्धव्याप्तोपलब्धिर्यथा नास्ति अस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् ॥८७॥ विरुद्धकार्योपलब्धिर्यथा-न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेः (दर्शनात्) ॥८८॥
Page #23
--------------------------------------------------------------------------
________________
१४
जैनदर्शनप्रवेशकः विरुद्धकारणोपलब्धिर्यथा-नास्य महर्षेरसत्यं वचः समस्ति, रागद्वेषकालुष्याऽकलङ्कितज्ञानसंपन्नत्वात् ॥८९॥ विरुद्धपूर्वचरोपलब्धिर्यथा-नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा, रोहिण्युद्गमात् ॥१०॥ विरुद्धोतरचरोपलब्धिर्यथा-नोदगान्मुहूर्तात्पूर्वं मृगशिरः, पूर्वफल्गुन्युदयात् ॥९१॥ विरुद्धसहचरोपलब्धिर्यथा-नास्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनात् ॥९२।। अनुपलब्धेरपि द्वैरुप्यम्, अविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च ॥९३॥ तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा ॥९॥ प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिः ॥९५॥ स्वभावानुपलब्धिर्यथा-नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् ॥९॥ व्यापकानुपलब्धिर्यथा-नास्त्यत्र प्रदेशे पनसः पादपानुपलब्धेः ॥९७॥ कार्यानुपलब्धिर्यथा-नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कुरानवलोकनात् ॥९८॥ कारणानुपलब्धिर्यथा-न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाभावात् ॥१९॥ पूर्वचरानुपलब्धिर्यथा-नोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं चित्रोदयादयाऽदर्शनात् ॥१००॥ उत्तरचरानुपलब्धिर्यथा-नोदगमत् पूर्वभद्रपदा मुहूर्तात्पूर्वमुत्तरभद्रपदोद्गमानवगमात् ॥१०॥
Page #24
--------------------------------------------------------------------------
________________
१५
प्रमाणनयतत्त्वालोकः सहचरानुपलब्धिर्यथा-नास्त्यस्य सम्यग्ज्ञानं, सम्यग्दर्शनानुपलब्धेः ॥१०२॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा ॥१०३।। विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् ॥१०४॥ विरुद्धकार्यानुपलब्धिर्यथा-अत्र शरीरिणि रोगातिशयः समस्ति, नीरोगव्यापारानुपलब्धेः ॥१०५॥ विरुद्धकारणानुपलब्धिर्यथा-विद्यतेऽत्र प्राणिनि कष्टम्, इष्टसंयोगाऽभावात् ॥१०६॥ विरुद्धस्वभावानुपलब्धिर्यथा-वस्तुजातमनेकान्तात्मकम्, एकान्तस्वभावानुपलम्भात् ॥१०७|| विरुद्धव्यापकानुपलब्धिर्यथा-अस्त्यत्र छाया, औष्ण्यानुपलब्धेः ॥१०८॥ विरुद्धसहचरानुपलब्धिर्यथा-अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनानुपलब्धेः ॥१०९॥
चतुर्थः परिच्छेदः आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥१॥ उपाचारादाप्तवचनं च ॥२॥ समस्त्यत्र प्रदेशे रत्ननिधानम्, सन्ति रत्नसानुप्रभूतयः ॥३॥ अभिधेयं वस्तु यथावस्थितं यो जानीते, यथाज्ञानं चाभिधत्ते, स आप्तः ॥४॥ तस्य हि वचनमविसंवादि भवति ॥५॥ स च द्वेघा, लौकिको लोकोत्तरश्च ॥६॥
Page #25
--------------------------------------------------------------------------
________________
द
जैनदर्शनप्रवेशकः लौकिको जनकादिौकोत्तरस्तु तीर्थङ्करादिः ॥७॥ वर्णपदवाक्यात्मकं वचनम् ॥८॥ अकारादिः पौद्गलिको वर्णः ॥९॥ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् ।।१०।। स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः ॥११॥ अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद् यथार्थायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः ॥१२॥ सर्वत्रायं ध्वनिविधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥१३॥ एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्यप्रयोगः सप्तभङ्गी ॥१४॥ तद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः ॥१५॥ स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥१६॥ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः ॥१७॥ स्यादवक्तव्यमेवेति युगपविधिनिषेधकल्पनया चतुर्थः ॥१८॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः ॥१९॥ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः ॥२०॥ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ॥२१॥
Page #26
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः विधिप्रधान एव ध्वनिरिति न साधु ॥२२॥ निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥२३॥ अप्राधान्येनैव ध्वनिस्तमभिधत्ते इत्यप्यसारम् ॥२४॥ क्वचित् कदाचित् कथञ्चित् प्राधान्येनाप्रतिपन्नस्य तस्याप्राधान्यानुपपत्तेः ॥२५॥ निषेधप्रधान एव शब्द इत्यापि प्रागुक्तन्यायादपास्तम् ॥२६।। क्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥२७॥ अस्य विधिनिषेधान्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥२८॥ युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्रम् ॥२९॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ॥३०॥ विध्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न कान्तः ॥३१॥ निषेधात्मनः सह द्वयात्मनश्चार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमानत्वात् ॥३२॥ निषेधात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एवायमित्यप्यवधारणं न रमणीयम् ॥३३॥ इतरथापि संवेदनात् ॥३४॥ क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च ध्वनिर्नान्यथेत्यपि मिथ्या ॥३५॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धेः ॥३६॥ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चेतसि निधेयम् ॥३७॥
Page #27
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् ॥३८॥ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात् ॥३९॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् ॥४०॥ तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात् ॥४१॥ तस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४२॥ इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥४४॥ तद्विपरीतस्तु विकलादेशः ॥४५॥ तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरुपसामर्थ्यत: प्रतिनियतमर्थमवद्योतयति ॥४६॥ न तदुत्पत्तितदाकारताभ्याम्, तयोः पार्थक्येन सामस्त्येन च व्यभिचारोपलम्भात् ॥४७॥
पञ्चमः परिच्छेदः तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरुपपरिणत्याऽर्थक्रियासामर्थ्यघटनाच्च ॥२॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खतासामान्यं च ॥३॥ प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यम्, शबलशाबलेयादिपिण्डेषु गोत्वं यथा ॥४॥
Page #28
--------------------------------------------------------------------------
________________
१९
प्रमाणनयतत्त्वालोकः पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥ विशेषोऽपि द्विरूपो गुणः पर्यायश्च ॥६॥ गुणः सहभावी धर्मो यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिः ॥७॥ पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिः ॥८॥
षष्ठः परिच्छेदः
यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥१॥ तद् द्विविधमानन्तर्येण पारम्पर्येण च ॥२॥ तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥३॥ पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥४॥ शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥५॥ तत्प्रमाणतः स्याद् भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः ॥६॥ उपादानबुद्ध्यादिना प्रमाणाद् भिन्नेन व्यवहितफलेन हेतोर्व्यभिचार इति न विभावनीयम् ॥७॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ॥८॥ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः ॥९॥ यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् ॥१०॥ इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लव: प्रसज्येत ॥११॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् ॥१२॥ ---
Page #29
--------------------------------------------------------------------------
________________
२०
जैनदर्शनप्रवेशकः कथञ्चित्तस्यापि प्रमाणाद् भेदेन व्यवस्थानात् ॥१३॥ साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥१४॥ प्रमाणं हि करणाख्यं साधनम् स्वपरव्यवसितौ साधकतमत्वात् ॥१५॥ स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम् प्रमाणनिष्पाद्यत्वात् ॥१६॥ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदः ॥१७॥ कर्तृक्रिययोः साध्य-साधकभावेनोपलम्भात् ॥१८॥ कर्ता हि साधकः, स्वतन्त्रत्वात्; क्रिया तु साध्या, कर्तृनिर्वर्त्यत्वात् ॥१९॥ न च क्रिया क्रियावतः सकाशादभिन्नैव, भिन्नैव वा, प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् ॥२०॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥२१॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः ॥२२॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥२३॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः ॥२४॥ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासक-ज्ञान-दर्शन-विपर्ययसंशयानध्यवसायाः ॥२५॥ तेभ्यः स्वपव्यवसायस्यानुपपत्तेः ॥२६।। सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥२७॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥२८॥
Page #30
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥२९॥ यथा शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु, सप्तद्वीपसमुद्रज्ञानम् ॥३०॥ अननुभूते वस्तुनि तदितिज्ञानं स्मरणाभासम् ॥३१॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥३२॥ तुल्ये पदार्थे स एवायमिति, एकस्मिश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञानाभासम् ॥३३॥ यमलकजातवत् ॥३४॥ असत्यामपि व्याप्तौ तदवभासस्ताभासः ॥३५॥ स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति यथा ॥३६॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥३७॥ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥३८॥ प्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान् प्रत्यवधारणवर्जं परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥३९॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥४१॥ अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरागो वा
॥४२॥
आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनीभोजनं भजनीयम् ॥४३॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥४४॥
Page #31
--------------------------------------------------------------------------
________________
२२
जैनदर्शनप्रवेशकः स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥४५॥ अनभीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः ॥४६॥ असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥ यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः ॥४८॥ स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥४९॥ उभयासिद्धो-यथा परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥ अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात् ॥५१॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥५२॥ यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिसत्त्वात् ॥५३॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ॥५४॥ स द्वेधा-निर्णीतविपक्षवृत्तिकः, सन्दिग्धविपक्षवृत्तिकश्व ॥५५॥ निर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् ॥५६॥ सन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥५७॥ साधर्म्यण दृष्टान्ताभासो नवप्रकारः ॥५८॥ साध्यधर्मविकलः साधनधर्मविकलः उभयधर्मविकलः सन्दिग्धसाध्यधर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्मा अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति ॥५९॥ तत्रापौरुषेयः शब्दोऽमूर्तत्वात् दुःखवदिति साध्यधर्मविकलः ॥६०॥
Page #32
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः
२३ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥६१॥ कलशवदित्युभयधर्मविकलः ॥६२॥ रागादिमानयं वक्तृत्वात् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ॥६३।। मरणधर्माऽयं रागादिमत्त्वात् मैत्रवदिति सन्दिग्धसाधनधर्मा ॥६४॥ नायं सर्वदर्शी रागादिमत्त्वात् मुनिविशेषवदिति सन्दिग्धोभयधर्मा ॥६५॥ रागादिमान् विवक्षित पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः ॥६६॥ अनित्यः शब्दः कृतकत्वात् पटवदित्यप्रदर्शितान्वयः ॥६७॥ अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥६८॥ वैधयेणापि दृष्टान्ताभासो नवधा ॥६९॥ असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥७०॥ तेषु भ्रान्तमनुमानं प्रमाणत्वात्, यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं, यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेः
॥७
॥
निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद्, यत् तु सविकल्पकं न तत्प्रमाणं, यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात् प्रमाणत्वस्यानिवृत्तेः ॥७२॥ नित्यानित्यः शब्दः सत्त्वात् , यस्तु न नित्यानित्यः स न संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ॥७३॥
Page #33
--------------------------------------------------------------------------
________________
२४
जैनदर्शनप्रवेशकः असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद्, यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्मयोावृत्तेः सन्देहात् ।।७४॥ अनादेयवचनः कश्चिद् विवक्षितपुरुषो रागादिमत्त्वाद्, यः पुनरादेयवचनः स वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः, शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् ॥७५॥ न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वात्, यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागात्वाभावस्य करुणास्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् ॥७६।। न वीतरागः कश्चिद् विवक्षितः पुरुषो वक्तृत्वात्, यः पुनर्वीतरागो न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः ॥७७॥ अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः ॥७८।। अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथाऽऽकाशमितिविपरीतव्यतिरेकः ॥७९॥ उक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ ॥८०॥ यता परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी, यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥८१॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति, तस्मात् परिणामी कुम्भ इति च ॥८२॥ अनाप्तवचनप्रभवं ज्ञानामागमाभासम् ॥८३॥ यथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखर्जुराः
Page #34
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः सन्ति, त्वरितं गच्छत गच्छत शावकाः ॥८४|| प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याभासम् ॥८५।। सामान्यमेव, विशेष एव, तद्द्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥८६॥ अभिन्नमेव, भिन्नमेव, वा प्रमाणात् फलं तस्य तदाभासम् ॥८७॥
सप्तमः परिच्छेदः
नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥७॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥२॥ स व्याससमासाभ्यां द्विप्रकारः ॥३॥ व्यासतोऽनेकविकल्पः ॥४॥ समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥५॥ आद्यो नैगमसङ्ग्रहव्यवहारभेदात् त्रेधा ॥६॥ धर्मयोधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥७॥ सच्चैतन्यमात्मनीति धर्मयोः ॥८॥ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥१०॥ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥११॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥१२॥
Page #35
--------------------------------------------------------------------------
________________
२६
जैनदर्शनप्रवेशकः सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ॥१३।। अयमुभयविकल्पः परोऽपरश्च ॥१४॥ अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः ॥१५॥ विश्वमेकं सदविशेषादिति यथा ॥१६॥ सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ॥१७॥ यथा सत्तैव तत्त्वं, ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥१८॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः ॥१९॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥२०॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निढुवानस्तदाभासः ॥२१॥ यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः ॥२२॥ सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ॥२३॥ यथा यत् सत् , तद् द्रव्यं पर्यायो वेत्यादिः ॥२४॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ॥२५।। यथा चार्वाकदर्शनम् ॥२६॥ पर्यायार्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च ॥२७॥ ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥२८॥
Page #36
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः
२७ यथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः ॥२९॥ सर्वथा द्रव्यापलापी तदाभासः ॥३०॥ यथा तथागतमतम् ॥३१॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥३२॥ यथा-बभूव भवति भविष्यति सुमेरित्यादिः ॥३३।। तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥३४॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ॥३५॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः ॥३६।। इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥३८॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया एव, भिन्नशब्दत्वाद् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥३९॥ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः ॥४०॥ यथेन्दनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः, पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः ॥४२॥ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥४३॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ॥४४॥
Page #37
--------------------------------------------------------------------------
________________
२८
शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४५॥ पूर्व: पूर्वो नय: प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥४६॥ सन्मात्रगोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः || ४७৷৷ सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः ॥ ४८ ॥
वर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः
जैनदर्शनप्रवेशकः
॥४९॥
कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृऋजुसूत्रस्तद्विपरीतवेदकत्वान् महार्थः ॥५०॥
प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥५१॥
प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथाऽर्थ - स्थापकत्वान्महागोचरः ॥५२॥
नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति
॥५३॥
प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥५४॥
प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥५५॥
चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्धोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्न: पौद्गलिकादृष्टवांश्चायम् ॥५६॥
तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः
॥५७॥
Page #38
--------------------------------------------------------------------------
________________
प्रमाणनयतत्त्वालोकः
अष्टमः परिच्छेदः
विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः ॥१॥ प्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च ॥२॥ स्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः ॥३॥ तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥४॥ अयं च द्वधा स्वात्मनि परत्र च ॥५॥ आद्यः शिष्यादिः ॥६॥ द्वितीयो गुर्वादिः ॥७॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८॥ एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥९॥ तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौःस्थ्यापत्तेः ॥१०॥ द्वितीये तृतीयस्य कदाचिद् व्यङ्गः, कदाचित् व्यङ्गः ॥११॥ तत्रैव व्यङ्गस्तुरीयस्य ॥१२॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥१३॥ तुरीये प्रथमादीनामेवम् ॥१४॥ वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥१५॥ प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥१६॥ प्रमाणत: स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥१७॥
Page #39
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः ॥१८॥ वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाऽग्रवादोत्तरवादनिर्देशः, साधकबाधकोक्तिगुणदोषावधारणम्, यथावसरं तत्त्वप्रकाशनेन कथाविरमणम्, यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि ॥१९॥ प्रज्ञाऽऽज्ञैश्वर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः ॥२०॥ वादिसभ्याभिहितावधारणं कलहव्यपोहादिकं चास्य कर्म ॥२१॥ सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् ॥२२॥ उभयोस्तत्त्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णय, यावत् स्फूर्ति च वाच्यम् ॥२३॥
Page #40
--------------------------------------------------------------------------
________________
पू. आ. श्रीहेमचन्द्रसूरीश्वरजीविरचिता
प्रमाणमीमांसाः
प्रथमस्याध्यायस्य प्रथममाह्निकम्
अथ प्रमाणमीमांसा ॥१॥ सम्यगर्थनिर्णयः प्रमाणम् ॥२॥ स्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावात् ॥३॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि नाप्रामाण्यम् ॥४॥ अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥५॥ विशेषानुल्लेख्यनध्यवसायः ॥६॥ अतस्मिंस्तदेवेति विपर्ययः ॥७॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥८॥ प्रमाणं द्विधा ॥९॥ प्रत्यक्षं परोक्षं च ॥१०॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षतरप्रमाणसिद्धिः ॥११॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः ॥१२॥ विशदः प्रत्यक्षम् ॥१३॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम् ॥१४॥ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्यं केवलम् ॥१५॥
Page #41
--------------------------------------------------------------------------
________________
३२
जैनदर्शनप्रवेशकः प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥१६॥ बाधकाभावाच्च ॥१७॥ तत्तारतम्येऽवधिमनःपर्यायौ च ॥१८॥ विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥१९॥ इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सांव्यवहारिकम् ॥२०॥ स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि ॥२१॥ द्रव्येन्द्रियं नियताकाराः पुद्गलाः ॥२२॥ भावेन्द्रियं लब्ध्युपयोगौ ॥२३॥ सर्वार्थग्रहणं मनः ॥२४॥ नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् ॥२५॥ अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥२६॥ अवगृहीतविशेषाकाङ्क्षणमीहा ॥२७॥ ईहितविशेषनिर्णयोऽवायः ॥२८॥ स्मृतिहेतुर्धारणा ॥२९॥ प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥३०॥ अर्थक्रियासामर्थ्यात् ॥३१॥ तल्लक्षणत्वाद्वस्तुनः ॥३२॥ पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियोपपत्तिः ॥३३॥ फलमर्थप्रकाशः ॥३४॥ कर्मस्था क्रिया ॥३५॥
Page #42
--------------------------------------------------------------------------
________________
प्रमाणमीमांसाः कर्तृस्था प्रमाणम् ॥३६॥ तस्यां सत्यामर्थप्रकाशसिद्धेः ॥३७॥ अज्ञाननिवृत्तिर्वा ॥३८॥ अवग्रहादीनां वा क्रमोपजनधर्माणां पूर्वं पूर्वं प्रमाणमुत्तरमुत्तरं फलम् ॥३९॥ हानादिबुद्धयो वा ॥४०॥ प्रमाणाद्भिनाभिन्नम् ॥४१॥ स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥
प्रथमस्याध्यायस्य द्वितीयमाह्निकम् अविशदः परोक्षम् ॥१॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥२॥ वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥३॥ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ॥५॥ व्याप्तिापकस्य व्याप्ये सति भाव एव व्याप्यस्य वा तत्रैव भावः ॥६॥ साधनात् साध्यविज्ञानम् अनुमानम् ॥७॥ तत् द्विधा स्वार्थं परार्थं च ॥८॥ स्वार्थं स्वनिश्चितसाध्याविनाभावैकलक्षणात् साधनात् साध्यज्ञानम् ॥९॥ सहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥१०॥ ऊहात् तन्निश्चयः ॥११॥
Page #43
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् ॥१२॥ सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥१३॥ प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥१४॥ साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः ॥१५॥ धर्मी प्रमाणसिद्धः ॥१६॥ बुद्धिसिद्धोऽपि ॥१७॥ न दृष्टान्तोऽनुमानाङ्गम् ॥१८॥ साधनमात्रात् तत्सिद्धेः ॥१९॥ स व्याप्तिदर्शनभूमिः ॥२०॥ स साधर्म्यवैधाभ्यां द्वेधा ॥२१॥ साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥२२॥ साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्यदृष्टान्तः ॥२३॥
द्वितीयस्याध्यायस्य प्रथममाह्निकम् यथोक्तसाधनाभिधानजः परार्थम् ॥१॥ वचनमुपचारात् ॥२॥ तवेधा ॥३॥ तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥४॥ नानयोस्तात्पर्ये भेदः ॥५॥ अत एव नोभयोः प्रयोगः ॥६॥ विषयोपदर्शनार्थं तु प्रतिज्ञा ॥७॥ गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवत् तदुपपत्तिः ॥८॥ एतावान् प्रेक्षप्रयोगः ॥९॥ बोध्यानुरोधात् प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चापि ॥१०॥ साध्यनिर्देशः प्रतिज्ञा ॥११॥ साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥१२॥ दृष्टान्तवचनमुदाहरणम् ॥१३॥
Page #44
--------------------------------------------------------------------------
________________
३५
प्रमाणमीमांसाः धर्मिणि साधनस्योपसंहार उपनयः भारतमा साध्यस्य निगमनम् ॥१५॥ असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥१६॥ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वाऽसिद्धः
॥१७॥
वादिप्रतिवाद्युभयभेदाच्चैतद्भेदः ॥१८॥ विशेष्यासिद्धादीनामेष्वन्तर्भावः ॥१९॥ विपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः ॥२०॥ नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः ॥२१॥ साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥२२॥ अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटः साध्यसाधनोभयविकला: ॥२३॥ वैधयेण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ॥२४॥ वचनाद्रागे रागान्मरणधर्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्यापुरुषादयः ॥२५॥ विपरीतान्वयव्यतिरेकौ ॥२६॥ अप्रदर्शितान्वयव्यतिरेकौ ॥२७॥ साधनदोषोद्भावनं दूषणम् ॥२८॥ अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥२९॥ तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः ॥३०॥ स्वपक्षस्य सिद्धिर्जयः ॥३१॥ असिद्धिः पराजयः ॥३२॥ स निग्रहो वादिप्रतिवादिनोः ॥३३॥ न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥३४॥ .. नाऽप्यसाधनाङ्गवचनमदोषोद्भावने ॥३५॥
Page #45
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः स्वेष्टार्थसाधकमबाधितं गूढपदसमूहात्मकं प्रसिद्धावयवोपेतं वाक्यं पत्रम् ॥३६॥
द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् अतिरस्कृतान्यपक्षोऽभिप्रेतपदार्थांशग्राही ज्ञातुरभिप्रायो नयः ॥१॥ द्रव्यपर्यायान्यतरस्य उभयस्य वा गौणमुख्यभावेन प्ररुपणप्रवीणो नैगमः ॥२॥ अनिष्पन्नपर्यायस्य संकल्पमात्रग्राही नेगमः ॥३॥ अभेदरूपतया वस्तुजातस्य संग्राहकः संग्रहः ॥४॥ संग्रहगृहीतार्थानां भेदरूपतया विधिपूर्वकं व्यवहरणं व्यवहारः ॥५॥ वर्तमानमात्रपर्यायग्राही ऋजुसूत्रः ॥६॥ कालादिभेदेन शब्दस्य भिन्नार्थवाचकत्वेन अभ्युपगमपरः शब्दः ॥७॥ निरुक्तिभेदजन्यभिन्नपर्यायवाचकशब्दात् पदार्थनानात्वनिरुपकः समभिरुढः ॥८॥ शब्दप्रवृत्तिनिमित्तभूतक्रियायुक्तस्य अर्थस्य तच्छब्दवाच्यत्वेन प्ररुपक एवम्भूतः ॥९॥
द्वितीयस्याध्यायस्य तृतीयमाह्निकम् संयोग-समवाय-विशिष्टसामान्यान्यतमावच्छेदेन नास्तीति प्रतीतिविषयोऽत्यन्ताभावः ॥१॥ कार्याकारव्यावृत्तिमान् कार्यपूर्वपर्याय एव प्राग्भावः [प्रतियोग्युपादाने कार्यप्राक्कालावच्छेदेन एतत्कार्यं भविष्यति इति प्रतीतिविषयत्वं प्रागभावः] ॥२॥ कार्यकारव्यावृत्तिमान् कार्योत्तरपर्यायोध्वंसः [प्रतियोग्युपादाने कार्योत्तर
दितीय
Page #46
--------------------------------------------------------------------------
________________
प्रमाणमीमांसाः
कालावच्छेदेन एतत्कार्यं न उपलभ्यते ( नष्टम् ) इति प्रतीतिविषयत्वं
ध्वंसः ] ॥३॥
स्वरूपावच्छेदेन
स्वरूपान्तरव्यवच्छेदानोऽन्योऽन्याभावः ||४||
३७
ज्ञानदर्शनचारित्रगुणवान् जीवात्मा ॥५॥
जडत्वे सति आत्मनो विभावदशाजनकत्त्वं कर्म ॥६॥ मिथ्यात्वाविरतिकषाययोगेन कर्मण आत्मना सह एकीभवनं कर्मबन्धः
॥७॥
यथाध्यात्मम् असति सत्प्रकारिका बुद्धिः तत्कारणं वा मिथ्यात्वम् ॥८॥ षट्कायवधषडिन्द्रियेभ्यो यतनया अनिवर्तनं अविरतिः ॥९॥
जातिम्लानिवृद्धिप्रभृतिधर्मवान् सजीवः ॥१०॥
प्रमादवशात् प्राणिपीडनं हिंसा ॥१॥ [ प्रमादयोगेन शुभसंकल्पाभावे सति प्राणव्यपरोपणं हिंसा ||११||]
रागद्वेषजन्यो मनसः परिणामः कषायः ॥१२॥
[भवप्रयोजकाध्यवसायः कषायः ]
आत्मपरिस्पन्दनप्रयोजकत्वं योगत्वम् ॥१३॥
जिनवचनविषयकास्तिक्यप्रयोजकत्वं सम्यक्त्वम् ॥१४॥
सम्यक्श्रद्धया यथावस्थितपदार्थावगमः सम्यग्ज्ञानम् ॥१५॥ ज्ञपरिज्ञानपूर्वकः पापव्यापारपरिहारः संयमः ॥१६॥
उपाधिमात्रध्वंसो मोक्षः ॥१७॥
Page #47
--------------------------------------------------------------------------
________________
पू. आ. श्रीसिद्धसेनदिवाकराचार्यविरचितम्
सम्मतिसूत्रम्
नयकंडम्
सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥१॥ समयपरमत्थवित्थरविहाडजणपज्जुवासणसयण्हो । आगममलारहियओ जह होति तमत्थमुन्नेसु ॥२॥ तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी । दव्वट्ठिओ अ पज्जवणओ अ सेसा विअप्पा सिं ॥३॥ दव्वट्ठिअनयपयडी सुद्धा संगहपरूवणाविसओ । पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो ॥४॥ मूलनिमेणं पज्जवनयस्स उज्जुसुअवयणविच्छेदो । तस्स उ सद्दाईआ साहपसाहा सुहुमभेआ ॥५॥ नामं ठवणा दविए ति एसु दव्वट्ठिअस्स निक्खेवो । भावो उ पज्जवट्ठिअस्स परूवणा एस परमत्थो ॥६॥ पज्जवणिसामन्नं वयणं दव्वट्ठिअस्स अत्थि त्ति । अवसेसो वयणविही पज्जवभयणा सपडिवक्खो ॥७॥
Page #48
--------------------------------------------------------------------------
________________
सम्मतिसूत्रम्
पज्जवनयवोक्कंतं वत्थु दव्वट्ठिअस्स वयणिज्जं । जाव दविओवओगो अपच्छिमविअप्पनिव्वयणो ॥८॥ दव्वट्ठिओ त्ति तम्हा नत्थि नओ निअमसुद्धजाईओ । न य पज्जवट्ठिओ नाम कोइ भयणाय उ विसेसो ॥९॥ दव्वट्ठिअवत्तव्वं अवत्थु नियमेण होइ पज्जाए । तह पज्जववत्थु अवत्थुमेव दव्वट्ठिअनयस्स ॥१०॥ उप्पज्जंति वयंति अ भावा निअमेण पज्जवनयस्स । दव्वट्ठियस्स सव्वं सया अणुप्पन्नमविणटुं ॥११॥ दव्वं पज्जवविउयं दव्वविउत्ता य पज्जवा नत्थि । उप्पायठिईभंगा हंदि दविअलक्खणं एअं ॥१२॥ एए पुण संगहओ पाडिक्कमलक्खणं दुवेण्हं पि । तम्हा मिच्छट्ठिी पत्तेअं दो वि मूलनया ॥१३॥ ण य तइओ अत्थि नओ न य सम्मत्तं न तेसु पडिपुण्णं । जेण दुवे एगंते विभज्जमाणा अणेगंतो ॥१४॥ जह एए तह अन्ने पत्तेयं दुण्णया नया अन्ने । हंदि हु मूलनयाणं पन्नवणे वावडा ते वि ॥१५॥ सव्वनयसमूहम्मि वि नत्थि नओ उभयवायपण्णवओ । मूलनयाण उ आणं पत्तेअविसेसि बिंति ॥१६॥ ण य दव्वट्ठिअपक्खे संसारो णेय पज्जवनयस्स । सासयवियत्तिवाई जम्हा उच्छेअवाइआ ॥१७॥ सुहदुक्खसंपओगो न जुज्जई निच्चवायपक्खम्मि । एगंतुच्छेअम्मि वि सुहदुक्खविअप्पणमजुत्तं ॥१८॥
Page #49
--------------------------------------------------------------------------
________________
४०
जैनदर्शनप्रवेशकः
कम्मं जोगनिमित्तं बज्झइ बंधट्ठिई कसायवसा । अपरिणउच्छिण्णेसु अ बंधट्ठिई कारणं नत्थि ॥१९॥ बंधम्मि अपूरंते संसारभओहदंसणं मोज्झं । बंधं च विणा मोक्खसुहपत्थणा णत्थि मोक्खो य ॥२०॥ तम्हा सव्वे वि नया मिच्छद्दिट्ठी सपक्खपडिबद्धा । अन्नोन्ननिस्सिआ उण हवंति संमत्तसब्भावा ॥२१॥ जह णेगलक्खणगुणगणवेरुलिआइमणी विसंजुत्ता । रयणावलिववएसं न लहंति महग्घमुल्ला वि ॥२२॥ तह निअयवायसुविनिच्छिआ वि अन्नोन्नपक्खनिरवेक्खा । सम्मद्दंसणसद्दं सव्वे वि नया न पावंति ॥२३॥ जह पुण ते चेव मणी जहा गुणविसेसभागपडिबद्धा । रयणावलि त्ति भणइ जहन्ति पाडिक्कसन्नाओ ॥२४॥ तह सव्वे नयवाया जहाणुरूवं वि णिउत्तवत्तव्वा । सम्मद्दंसणसद्दं लहंति न विसेस ( स ) न्नाओ ॥२५॥ लोइअपरिच्छिअसुहो निच्छयवयणपडिवत्तिमग्गो अ । अह पत्रवणाविसओ त्ति तेण वीसत्थमवणीओ ॥ २६ ॥ इह समूहसिद्धो परिणामकउ व्व जो जहिं अत्थो । ते तं च ण तं तं चेव व त्ति णिअमेण मिच्छत्तं ॥२७॥ निअवयणिज्जसच्चा सव्वनया परिविआलणे दोसा । ते उण अदिट्ठसमओ विभयइ सच्चे व अलिए वा ॥ २८॥ दव्वट्ठिअवत्तव्वं सच्चं सच्चेण निच्चमविअप्पं । आरद्धो अ विभागो पज्जववत्तव्वमग्गो अ ॥२९॥
Page #50
--------------------------------------------------------------------------
________________
४१
सम्मतिसूत्रम्
सो पुण समासओ चिअ वंजणनिअओ अ अत्थनिअओ अ । अत्थगओ अ अभिन्नो भइअव्वो वंजणविगप्पो ॥३०॥ एगदविअम्मि जे अत्थपज्जवा वयणपज्जवा वा वि । तीआणागयभूआ तावइअं तं हवइ दव्वं ॥३१॥ पुरिसम्मि पुरिससद्दो जम्माईमरणकालपज्जतो । तस्स उ बालाईआ पज्जवजोगा बहुविगप्पा ॥३२॥ अत्थि त्ति निव्विअप्पं पुरिसं जो भणइ पुरिसकालम्मि । सो बालाइविगप्पं न लहइ तुल् व पाविज्जा ॥३३॥ वंजणपज्जायस्स उ पुरिसो पुरिसो त्ति निच्चमविअप्पो । बालाइविगप्पं पुण पासइ से अत्थपज्जाओ ॥३४॥ सविअप्पनिव्विअप्पं इअ पुरिसं जो भणिज्ज अविअप्पं । सविअप्पमेव वा निच्छएण न य निच्छिओ समए ॥३५।। अत्यंतरभूएहि अनिअएहि अ दोहि समयमाईहिं । वयणविसेसाईअं दव्वमवत्तव्वयं पडइ ॥३६।। अह देसो सब्भावे देसो सब्भावपज्जवे निअओ । तं दविअमत्थि नत्थि अ आएसविसेसि जम्हा ॥३७|| सब्भावे आइट्ठो देसो देसो अ उभयहा जस्स । तं अत्थि अवत्तव्वं च होइ दविअं विअप्पवसा ॥३८॥ आइट्ठोऽसब्भावे देसो देसो अ उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दविअं विअप्पवसा ॥३९॥ सब्भावासब्भावे देसो देसो अ उभयहा जस्स । तं अत्थि णत्थिअवत्तव्वयं च दविअं विअप्पवसा ॥४०॥
Page #51
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए । वंजणपज्जाए पुण सविअप्पो निव्विअप्पो अ ॥४१॥ जह दविअमप्पिअं तं तहेव अत्थि त्ति पज्जवनयस्स । न य समयपन्नवणा पज्जवनयमेत्तपडिपुण्णा ॥४२॥ पडिपुण्णजोव्वणगुणो जह लज्जइ बालभावचरिएहिं । कुणइ अ गुणपणिहाणं अणागयसुहोवहाणत्थं ॥४३॥ ण य होइ जोव्वणत्थो बालो अन्नो वि लज्जइ न तेण । न वि अ अणागयवयगुणपसाहणं जुज्झइ विभत्ते ॥४४॥ जाइकुलरूवलक्खणसन्नासंबंधओ अहिगयस्स । बालाइभावदिट्ठविगयस्स जह तस्स संबंधो ॥४५॥ तेहिं अइआणागयदोसगुणदुगंछणऽब्भुवगमेहिं । तह बंधमोक्खसुहदुक्खपत्थणा होइ जीवस्स ॥४६॥ अन्नोन्नाणुगयाणं इमं च तं च त्ति विभयणमजुत्तं । जह दुद्धपाणिआणं जावंत विसेसपज्जाया ॥४७॥ रूवाइपज्जवा जे देहे जीवदविअम्मि सुद्धम्मि । ते अन्नोन्नाणुगया पण्णवणिज्जा भवत्थम्मि ॥४८॥ एवं एगे आया एगे दंडो अ होइ किरिआ य । करणविसेसेण य तिविहजोगसिद्धी उ अविरुद्धा ॥४९॥ न य बाहिरओ भावो अभितरओ अ अत्थि समयम्मि । नोइंदिअं पुण पडुच्च होइ अभितरो भावो ॥५०॥ दव्वट्ठिअस्स आया बंधइ कम्मं फलं च वेएइ । बिइअस्स भावमेत्तं न कुणइ नय को वि वेएइ ॥५१॥
Page #52
--------------------------------------------------------------------------
________________
सम्मतिसूत्रम्
दव्वट्ठिअस्स जो चेव कुणइ सो चेव वेअई निअम । अन्नो करेइ अन्नो परिभुंजइ पज्जवनयस्स ॥५२॥ जं वयणिज्जविअप्पा संजुज्जंतेसु होंति एएसु । सा ससमयपण्णवणा तित्थयरासायणा अन्ना ॥५३॥ पुरिसज्जायं तु पडुच्च जाणओ पण्णवेज्ज अण्णयरं । परिकम्मणानिमित्तं दाएही सो विसेसं पि ॥ ५४ ॥ ॥ जीवकंडम् ॥
जं सामन्नग्गहणं दंसणमेअं विसेसिअं नाणं । दोह वि णयाण एसो पाडेक्कं अत्थपज्जाओ ॥५५॥ दव्वट्ठिओ वि होउण दंसणे पज्जवट्ठिओ होइ । उवसमिआईभावं पडिच्च नाणे उ विवरीअं ॥ ५६ ॥ मणपज्जवणाणतो नाणस्स य दंसणस्स य विसेसो । केवलनाणं पुण दंसणं ति नाणं ति अ समाणं ॥५७॥ केई भांति जइआ जाणइ तइआ ण पासइ जिणो त्ति । सुत्तमवलंबमाणा तित्थयरासायणाभीरू ॥५८॥ केवलनाणावरणक्खयजायं केवलं जहा नाणं । तह दंसणं पि जुज्जइ निअआवरणक्खयस्संते ॥५९॥ भन्नइ खीणावरणे जह मइनाणं जिणे न संभवइ । तह खीणावर णिज्जे विसेसओ दंसणं नत्थि ॥६०॥ सुत्तम्मि चेव साई अपज्जवसिअं ति केवलं भणिअं । सुत्तासयणभीरूहिं तं पि दट्ठव्वियं होइ ॥ ६१ ॥
संतम्मि केवले दंसणम्मि नाणस्स संभवो नत्थि । केवलनाणम्मि अ दंसणस्स तम्हा सनिहाई ॥६२॥
४३
Page #53
--------------------------------------------------------------------------
________________
४४
जैनदर्शनप्रवेशकः दंसणनाणावरणक्खए समाणम्मि कस्स पुव्वयरं । होज्ज समं उप्पाओ हंदि दुवे नत्थि उवओगा ॥६३|| जइ सव्वं सायारं जाणइ सव्वसमएण सव्वन्नू । जुज्जइ सया वि एवं अहवा सव्वं न याणाइ ॥६४॥ परिसुद्धं सागारं अविअत्तं दंसणं अणागारं । न य खीणावरणिज्जे जुज्जइ सविअत्तमविअत्तं ॥६५।। अद्दिटुं अन्नायं केवली एव भासइ सया वि । एगसमएण हंदी वयणविअप्पो न संभवइ ॥६६॥ अन्नायं पासंतो अदिटुं च अरहा विआणतो । किं जाणइ किं पासइ कह सव्वण्णु त्ति वा होइ ॥६७॥ केवलनाणमणंतं जहेव तह दंसणं पि पण्णत्तं । सागारग्गहणाहि अ निअमपरित्तं अणागारं ॥६८॥ भण्णइ जह चउनाणी जुज्जइ निअमा तहेव एअं पि । भण्णइ न पंचनाणी जहेव अरहा तहेअं पि ॥६९।। पण्णवणिज्जा भावा समत्तसुअनाणदंसणा विसओ ।
ओहिमणपज्जवाण उ अन्नोन्नविलक्खणो विसओ ॥७०|| तम्हा चउविभागो जुज्जइ न उ नाणदंसणजिणाणं । सयलमणावरणमणंतमक्खयं केवलं नाणं ॥७१॥ परवत्तव्वयपक्खा अविसिट्ठा तेसु तेसु सुत्तेसु । अत्थगई य उ तेसि विअंजणं जाणओ कुणई ॥७२॥ जेण मणोविसयगयाण दंसणं नत्थि दव्वजायाणं । तो मणपज्जवनाणं निअमा नाणं तु निद्दिटुं ।।७३।।
Page #54
--------------------------------------------------------------------------
________________
४५
सम्मतिसूत्रम्
चक्खुअचक्खुअवहिकेवलाण समयम्मि दंसणविगप्पा । परिपढिआ केवलनाणदंसणा तेण ते अन्ना ॥७४॥ दंसणमोग्गहमेत्तं घट त्ति निव्वण्णणा हवइ नाणं । जह एत्थ केवलाणं विसेसणं एत्तिअं चेव ॥७५।। दंसणपुव्वं नाणं नाणनिमित्तं तु दंसणं नत्थि । तेण सुविणिच्छिआमो दंसणनाणा ण अण्णत्तं ॥७६।। जइ उग्गहमित्तं दंसणमिति मनसि विसेसिअं नाणं । मइनाणमेव दंसणमेव सह होइ निप्फण्णं ॥७७॥ एवं सेसिदिअदंसणेसु नियमेण होइ न य जुत्तं । अह तत्थ नाणमेत्तं घिप्पइ चक्खुम्मि वि तहेव ॥७८॥ नाणं अप्पुढे अविसए अ अत्थम्मि दंसणं होइ । मोत्तूण लिंगओ जं अणागयाईअविसएसु ॥७९॥ मणपज्जवनाणं दंसणं ति तेणेव होइ न य जुत्तं । भन्नइ नाणं नोइंदिरं ति न घडादओ जम्हा ॥८०॥ मइसुअनाणनिमित्तो छउमत्थे होइ अत्थउवलंभो । एगयरम्मि वि तेसिं न दंसणं दंसणं कत्तो ॥८१॥ जं पच्चक्खग्गहणं ण इन्ति सुअनाणसंसिआ अत्था । तम्हा दंसणसद्दो न होइ सयलो वि सुअनाणे ॥८२॥ जं अप्पुट्ठा भावा ओहीनाणस्स हुंति पच्चक्खा । तम्हा ओहीनाणे दंसणसद्दो वि उवउत्तो ॥८३॥ जं अप्पुढे भावे जाणइ पासइ अ केवली निअमा । तम्हा तं नाणं दंसणं च अविसेसओ सिद्धं ॥८४॥
Page #55
--------------------------------------------------------------------------
________________
४६
जैनदर्शनप्रवेशकः साईअपज्जवसिअंति दो वि ते ससमयओ हवइ एवं । परतित्थिअवत्तव्वं च एगसमयंतरुप्पाओ ॥८५।। एवं जिणपन्नत्ते सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे दंसणसद्दो हवइ जुत्तो ॥८६।। सम्मानाणे निअमेण दंसणं दंसणे उ भइअव्वं । सम्मण्णाणं च इमं ति अत्थओ होइ उववण्णं ॥८७|| केवलनाणं साई अपज्जवसिअंति दाइअं समए । तेत्तिअमेत्तोत्तूणा केई विसेसं न इच्छंति ॥८८॥ जे संघयणाईआ भवत्थकेवलिविसेसपज्जाया । ते सिज्झमाणसमयम्मि होंति विगई तओ होइ ॥८९॥ सिद्धत्तणेण य पुणो उप्पन्नो एस अत्थपज्जाओ । केवलभावं तु पडुच्च केवलं दाइअं समए ॥९०॥ जीवो अणाइनिहणो केवलनाणं तु साइअमणंतं । इअ थोरम्मि विसेसे कह जीवो केवलं होइ ॥९१॥ तम्हा अन्नो जीवो अन्ने नाणाइपज्जवा तस्स । उवसमिआईलक्खणविसेसओ के वि इच्छंति ॥१२॥ अह पुण पुव्वपउत्तो अत्थो एगंतपक्खपडिसेहे । तह वि उदाहरणमिणं ति हेउपडिजोअणं वोच्छं ॥९३।। जह कोइ सटिवरिसो तीसइवरिसो नराहिवो जाओ । उभयत्थ जायसद्दो वरिसविभागं विसेसेइ ॥१४॥ एवं जीवद्दविअं अणाइनिहणमविसेसिअं जम्हा । रायसरिसो उ केवलिपज्जाओ तस्स सविसेसो ॥९५॥
Page #56
--------------------------------------------------------------------------
________________
४७
सम्मतिसूत्रम्
जीवो अणाइनिहणो जीव त्ति अनिअमओ न वत्तव्यो । जं पुरसाउअजीवो देवाउअजीविअविसिट्ठो ॥९६॥ संखिज्जमसंखिज्जं अणंतकप्पं च केवलं नाणं । तह रागदोसमोहा अन्ने वि अ जीवपज्जाया ॥९७॥
___॥ दव्व कंडम् ॥ सामण्णम्मि विसेसो विसेसपक्खे अ वयणविण्णासो । दव्वपरिणाममण्णं दाएइ तयं व निअमेइ ॥९८॥ एगंतनिव्विसेसं एगंतविसेसियं च वयमाणो । दव्वस्स पज्जवे पज्जवा हि दवि निअत्तेइ ॥९९।। पच्चुप्पन्नं भावं विगयभविस्सेहिं जं समाणेइ । एअं पडुच्च वयणं दव्वंतरनिस्सिअं जं च ॥१०॥ दव्वं जहा परिणयं तहेव अत्थि त्ति तम्मि समयम्मि । विगयभविस्सेहि उ पज्जवेहि भयणा विभयणा वा ॥१०१॥ परपज्जवेहिं असरिसगमेहिं निअमेण निच्चमवि नत्थि । सरिसेहि वि वंजणओ अत्थी ण पुण अत्थपज्जाए ॥१०२॥ पच्चुप्पन्नम्मि वि पज्जयम्मि भयणागइं पडइ दव्वं । जं एगगुणाईया अणंतकप्पा गुणविसेसा ॥१०३।। कोवं उप्पायंतो पुरसो जीवस्स कारओ होइ । तत्तो विभएअव्वो परम्मि सयमेव भइअव्वो ॥१०४॥ रूवरसगंधफासा असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया गुण त्ति ते केइ इच्छंति ॥१०५।। दूरे ता अन्नत्तं गुणसद्दे चेव ताव पारिच्छं । जं पज्जवाहि(इ)ओ होज्ज पज्जवे चेव गुणसन्ना ॥१०६॥
Page #57
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः दो पुण नया भगवया दव्वट्ठिअपज्जवट्ठिआ निअया । एत्तो अ गुणविसेसे गुणट्ठिअनओ वि जुज्जंतो ॥१०७॥ जं च पुण अरहया तेसु तेसु सुत्तेसु गोअमाईणं । पज्जवसण्णा निअमा वागरिआ तेण पज्जाया ॥१०८॥ परिगमणं पज्जाओ अणेगकरणं गुणो त्ति एगत्था । तह वि न गुणो त्ति भणइ पज्जवनयदेसणा जम्हा ॥१०९।। जंपंति अत्थि समए एगगुणो दसगुणो अणंतगुणो । रूवाईपरिणामो भणइ तम्हा गुणविसेसो ॥११०॥ गुणसद्दमंतरेणावि तं तु पज्जवविसेससंखाणं । सिज्झइ नवरं संखा न सत्थधम्मो तइ गुणो त्ति ॥१११॥ जह दससु दसगुणम्मि एगम्मि दसत्तणं समं चेव । अहिअम्मि वि गुणसद्दे तहेव एअं पि दट्ठव्वं ॥११२।। एगंतपक्खवाओ जो पुण दव्वगुणजाइभेयम्मि । अह पुव्वं पडिकुट्ठो उ आहरणमेत्तमेयं ति ॥११३॥ पिअपुत्तमित्तभज्जयभाऊणं एगपुरिससंबंधो । न य सो एगस्स पिउ त्ति सेसयाणं पिआ होइ ॥११४|| जह संबंधविसिट्ठो सो पुरिसो पुरिसभावनिरइसओ । तह दव्वमिंदिअगयं रूवाइविसेसणं लहइ ॥११५।। होज्जाहि दुगुणमहुरं अणंतगुणकालयं च जं दव्वं । न हु डहरओ महल्लो व होइ संबंधओ पुरिसो ॥११६॥ भन्नइ संबंधवसा जइ संबंधित्तणं अणुमयं ते । णणु संबंधविसेसं संबंधिविसेसणं सिद्धं ॥११७॥
Page #58
--------------------------------------------------------------------------
________________
४९
सम्मतिसूत्रम्
जुज्जइ संबंधवसा संबंधविसेसणं न पुण एअं । नयणाइविसेसगओ रूवाइविसेसपरिणामो ॥११८॥ भन्नइ विसमपरिणयं कह एअं होहिइ त्ति उवणीअं । तं होइ परनिमित्तं न व त्ति एत्थऽत्थि एगंतो ॥११९॥ दव्वस्स ठिई जम्म विगमा य गुणलक्खणं तु वत्तव्वं । एअं सइ केवलिणो जुज्जइ तं नो उ दविअस्स ॥१२०।। दव्वत्थंतरभूआ मुत्ताऽमुत्ता व ते गुणा होज्जा । जइ मुत्ता परमाणू नत्थि अमुत्तेसु अग्गहणं ॥१२१॥ सीसमईवित्थारणणिमित्तत्थोऽयं कओ समुल्लावो । इहरा कहामुहं चेव नत्थि एवं ससमयम्मि ॥१२२॥ न वि अत्थि अन्नवाओ न वि तव्वाओ जिणोवएसम्मि । तं चेव य मन्नंता अवमण्णंता न याणंति ॥१२३॥ भयणा वि हु भइअव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भयणानिअमो अ होइ समयाविरोहेणं ॥१२४॥ निअमेण सद्दहंतो छक्काए भावओ न सद्दहइ । हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ॥१२५।। गइपरिणयं गई चेव केइ निअमेण दविअमिच्छंति । तं पि अ उड्डगईअंतहा गई अन्नहा अगई ॥१२६॥ गुणनिव्वत्तियसन्ना एवं दहणादओ वि दट्ठव्वा । जं तु तहा पडिसिद्धं दव्वमदव्वं तहा होइ ॥१२७॥ कुंभो न जीवदविअं जीवो वि न होइ कुंभदविअं ति । तम्हा दो वि अदविअं अन्नोन्नविसेसिआ होंति ॥१२८।।
Page #59
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः उप्पाओ दुविगप्पो पओगजणिओ अ विस्ससा चेव । तत्थ उ पओगजणिओ समुदयजणिओ अ परिसुद्धो ॥१२९।। साभाविओ समुदयकउ व्व एगतिओ व्व होज्जाहि । आगासाईआणं तिण्हं परपच्चओ निअमा ॥१३०॥ विगमस्स वि एस विही समुदयजणिअम्मि सो उ दुविगप्पो । समुदयविभागमेत्तं अत्यंतरभावगमणं च ॥१३१॥ तिन्नि व उप्पायाई अभिन्नकाला य भिन्नकाला य । अत्यंतरं अणत्यंतरं च दविआहिं नायव्वा ॥१३२।। जो आकुंचणकालो सो चेव पसारिअस्स नो जुत्तो । तेसुं पडिवत्ती विगमे कालंतरं नत्थि ॥१३३॥ उप्पज्जमाणकालं उप्पन्नं ति विगयं विगच्छंतं । दवि पण्णवयंतो तिकालविसयं विसेसेइ ॥१३४॥ दव्वंतरसंजोआहिं के वि दविअस्स बिति उप्पायं । उप्पायत्थाकुसला विभागजाइं न इच्छंति ॥१३५॥ अणुदुअणुएहिं आरद्धे दव्वे तिअणुअंति निद्देसो । तत्तो अ पुण विभत्ते अणु त्ति जाओ अणू होइ ॥१३६।। बहुआण एगसद्दे जइ संजोगाहि होइ उप्पाओ । नणु एगविभागम्मि वि जुज्जइ बहुआण उप्पाओ ॥१३७।। एगसमयम्मि एगदविअस्स बहुआ वि हुंति उप्पाया । उप्पायसमा विगमा ठिईओ उस्सग्गओ निअमा ॥१३८॥ कायमणवयणकिरिआरूवाइगईविसेसओ होइ । संजोअभेअओ जाणणा वि दविअस्स उप्पाओ ॥१३९।।
Page #60
--------------------------------------------------------------------------
________________
सम्मतिसूत्रम्
दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ । तत्थ उ अहेउवाओ भविआभविआदओ भावा ॥१४०॥ भविओ सम्मद्दंसणनाणचरित्तपडिवत्तिसंपन्नो । निअमा दुक्खंतविअत्तिलक्खणं हेउवायस्स ॥ १४१ ॥ जो हेउवापक्खम्मि हेउओ आगमे अ आगमिओ । सो समय पण्णत्तो सिद्धंतविराहओ अन्नो ॥१४२॥ परिसुद्धो नयवाओ आगममेत्तत्थसाहओ भणिओ । सो चेव दुन्नयिणो दोणि वि पक्खे विहम्मे वि ॥१४३॥ जावइआ वयणपहा तावइआ चेव हुंति नयवाया । जावइआ नयवाया तावइया चेव परसमया ॥ १४४ ॥ जं काविलं दरिसणं एयं दव्वट्ठिअस्स वत्तव्वं । सुद्धोअणतणयस्स उ परिसुद्धो पज्जवविगप्पो ॥ १४५ ॥ दोहिं वि नएहिं नीअं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयपहाणत्तणेण अन्नोन्ननिरविक्खा ॥१४६॥
५१
जे संतवायदोसे सक्कोलुआ वयंति संखाणं । संखा य असव्वाए तेसिं सव्वे वि ते सच्चा ॥ १४७॥ ते उ भयणोवणीआ सम्मद्दंसणमणुत्तरं होंति । जं भवदुक्खविमुक्खं दो वि न पूरंति पाडिक्कं ॥१४८॥
नत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अन्नो । जं सुपुण घडो त्ति पुव्वं न आसि पुढवी तओ अन्नो ॥१४९॥ कालो सहावनिअओ (ई) पुव्वगयं पुरिसकारणेगंता । मिच्छत्तं तं चेव उ समासओ होंति सम्मत्तं ॥ १५० ॥
Page #61
--------------------------------------------------------------------------
________________
५२
जैनदर्शनप्रवेशकः
नत्थि न निच्चो न कुणइ कयं न वेएइ नत्थि निव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणा ॥ १५१ ॥ अत्थि अविणासधम्मा करेइ वेएइ अत्थि निव्वाणं । अत्थि य मोक्खोवाओ छ संमत्तस्स ठाणाई ॥१५२॥ साहंमउ व्व अत्थं साहिज्ज परो विहम्मओ वा वि । अन्नोन्नं पडिकुट्ठा दोण्णि वि एए असव्वाया ॥ १५३॥ दव्वट्ठिअवत्तव्वं सामन्नं पज्जवस्स य विसेसो । एए समोवणीआ विभज्जवायं विसेसेंति ॥ १५४॥ हेउविसओवणीअं जह वयणिज्जं परो निअत्तेई । जइ तं तहा पुरिल्लो दायंतो केण जिप्पंतो ॥ १५५॥ एगंतासब्भूअं सब्भूअं अणिच्छिअं च वयमाणो । लोइअपरिच्छ्याणं वयणिज्जपहे पडइ वाई ॥ १५६॥ दव्वं खेत्तं कालं भावं पज्जायदेससंजोगे । भेअं च पडुच्च समा भावाणं पण्णवणपज्जा ॥१५७॥ पाडेक्कनयपहगयं सुत्तं सुत्तधरसद्दसंतुट्ठा । अविकोविअसामत्था जहागमविभागपडिवत्ती ॥ १५८ ॥
सम्मदंसणमिणमो सयलसमत्तवयणिज्जनिद्दोसं । अत्तुक्कोसविणट्ठा सलाहमाणा विणासंति ॥ १५९ ॥
न हु सासणभत्तीमेत्तएण सिद्धंतजाणओ होइ । न वि जाणओ अ निअमा पन्त्रवणानिच्छिओ नामं ॥ १६० ॥
सुत्तं अत्थनिमेणं न सुत्तमित्तेण अत्थपडिवत्ती । अत्थगई वि अ नयवायगहणलीणा दुरहिगम्मा ॥ १६९ ॥
Page #62
--------------------------------------------------------------------------
________________
सम्मतिसूत्रम्
तम्हा अहिगयसुत्तेण अत्थसंपायणम्मि जइअव्वं । आयरिअधीरहत्था हंदि पहाणं विलंबंति ॥ १६२॥ जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ । अविणिच्छओ अ समए तह तह सिद्धंतपडिणीओ ॥ १६३ ॥
चरणकरणप्पहाणा ससमयपरंसमयमुक्कवावारा । चरणकरणस्स सारं निच्छयसुद्धं न याति ॥ १६४॥ नाणं किरिआरहिअं किरिआमित्तं च दो वि एगंता । असमत्था दाएउं जम्ममरणदुक्खमाभाइ ॥ १६५॥ जेण विणा लोगस्स वि ववहारो सव्वहा न निव्वडइ । तस्स भुवणेक्कगुरुणो नमो अगंतवायस्स ॥ १६६॥ भद्दं मिच्छदंसणसमूहमइअस्स अमयसायस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥ १६७॥
५३
Page #63
--------------------------------------------------------------------------
________________
उपाध्याय
श्रीविनयविजयजीकृतनयकर्णिका
वर्धमानं स्तुमः सर्वनयनद्यर्णवागमम् । संक्षेपतस्तदुन्नीतनयभेदानुवादतः ॥१॥ नैगमः सङ्ग्रहश्चैव, व्यवहारर्जुसूत्रकौ । शब्दः समभिरूद्वैवम्भूतौ चेति नया स्मृताः ॥२॥ अर्थाः सर्वेऽपि हि सामान्यविशेषोभयात्मकाः । सामान्यं तत्र जात्यादि, विशेषाश्च विभेदकाः ॥३॥ ऐक्यबुद्धिर्घटशते, भवेत्सामान्यधर्मतः । विशेषाच्च निजं निजं, लक्षयन्ति घटं जनाः ॥४॥ नैगमो मन्यते वस्तु, तदेतदुभयात्मकं । निर्विशेषं न सामान्यं, विशेषोऽपि न तद्विना ॥५॥ सङ्ग्रहो मन्यते वस्तु, सामान्यात्मकमेव हि । सामान्यव्यतिरिक्तोऽस्ति, न विशेषः खपुष्पवत् ॥६॥ विना वनस्पति कोऽपि, निम्बाम्रादिर्न दृश्यते । हस्ताद्यन्त विन्यो, नामुल्याद्यास्ततः पृथक् ॥७॥ विशेषात्मकमेवार्थं, व्यवहारश्च मन्यते । विशेषभिन्नं सामान्यमसत्खरविषाणवत् ॥८॥
Page #64
--------------------------------------------------------------------------
________________
नयकर्णिका
वनस्पति गृहाणेति, प्रोक्ते गृह्णाति कोऽपि किम् । विना विशेषान्नाम्रादींस्तन्निरर्थकमेव तत् ॥९॥ व्रणपिण्डीपादलेपादिके लोकप्रयोजने । उपयोगो विशेषैः स्यात्, सामान्येन हि कहिचित् ॥१०॥ ऋजुसूत्रनयो वस्तु, नातीतं नाप्यनागतम् । मन्यते केवलं किन्तु, वर्तमानं तथा निजम् ॥११॥ अतीतेनानागतेन, परकीयेन वस्तुना । न कार्यसिद्धिरित्येतदसद् गगनपद्मवत् ॥१२॥ नामादिषु चतुर्वेषु, भावमेव च मन्यते । न नामस्थापनाद्रव्याण्येवमग्रेतना अपि ॥१३॥ अर्थं शब्दनयोऽनेकैः, पर्यायैरेकमेव च । मन्यते कुम्भकलशघटाघेकार्थवाचकाः ॥१४॥ ब्रूते समभिरूढोऽर्थं, भिन्नं पर्यायभेदतः । भिन्नार्थाः कुम्भकलशघट घटपटादिवत् ॥१५॥ यदि पर्यायभेदेऽपि, न भेदो वस्तुनो भवेत् । भिन्नपर्याययोर्न स्यात्, स कुम्भपटयोरपि ॥१६॥ एकपर्यायाभिधेयमपि वस्तु च मन्यते । कार्यं स्यकीयं कुर्वाणमेवम्भूतनयो ध्रुवम् ॥१७॥ यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् । तदा पटेऽपि न घटव्यपदेशः किमिष्यते ? ॥१८॥ यथोत्तरं विशुद्धाः स्युर्नयाः सप्ताप्यमी तथा । एकैक: स्याच्छतं भेदास्ततः सप्तशतान्यमी ॥१९॥
Page #65
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः अथैवम्भूतसमभिरूढयोः शब्द एव चेत् । अन्तर्भावस्तदा पञ्च, नय पञ्चशतीभिदः ॥२०॥ द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी ।। आदावादिचतुष्टयमन्त्ये चान्त्यास्त्रयस्ततः ॥२१॥ सर्वे नया अपि विरोधभृतो मिथस्ते, सम्भूय साधुसमयं भगवन् ! भजन्ते । भूपा इव प्रतिभट भुवि सार्वभौमपादाम्बुजं प्रघनयुक्तिपराजिता द्राक् ॥२२॥ इत्थं नयार्थकवचः कुसुमैजिनेन्दु, वीरोचितः सविनयं विनयाभिधेन । श्रीद्वीपबन्दरवरे विजयादिदेवसूरीशितुर्विजयसिंहगुरोश्च तुष्टयै ॥२३॥
Page #66
--------------------------------------------------------------------------
________________
षड्दर्शनसमुच्चयः सद्दर्शनं जिन नत्वा वीरं स्याद्वाददेशकम् । सर्व-दर्शन-वाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ दर्शनानि षडेवात्र मूल-भेद-व्यपेक्षया । देवता-तत्त्व-भेदेन ज्ञातव्यानि मनीषिभिः ॥२॥ बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ! ॥३॥
बौद्धदर्शनम् तत्र बौद्धमते तावद् देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररुपकः ॥४॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना सञ्ज्ञा संस्कारो रूपमेव च ॥५॥ समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयभावाख्यः समुदयः स उदाहृतः ॥६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना यका । स मार्ग इह विज्ञेयो निरोधो मोक्ष उच्यते ॥७॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥८॥
Page #67
--------------------------------------------------------------------------
________________
जैनदर्शनप्रवेशकः प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥ प्रत्यक्षं कल्पनापोढमभ्रान्तं तत्र बुध्यताम् । त्रिरुपाल्लिङ्गतो लिङ्गज्ञानं त्वनुमानसज्ञितम् ॥१०॥ रुपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यताम् ॥११॥
न्यायदर्शनम् बौद्धराद्धान्त-वाच्यस्य संक्षेपोऽयं निवेदितः । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ आक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥१३॥ तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥१४॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥१५॥ जातयो निग्रहस्थानान्येषामेवं प्ररुपणा । अर्थोपलब्धिहेतुः स्यात् प्रमाणं तच्चतुर्विधम् ॥१६॥ प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा । तत्रेन्द्रियार्थसंपर्कोत्पन्नमव्यभिचारि च ॥१७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्षमनुमानं तु तत्पूर्वं त्रिविधं भवेत् ॥१८॥ पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राद्यं कारणात् कार्यानुमानमिह गीयते ॥१९॥
Page #68
--------------------------------------------------------------------------
________________
षड्दर्शनसमुच्चयः
रोलम्ब-गवल-व्याल-तमाल- मलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवम्प्रायाः पयोमुचः ||२०|| कार्यात्कारणानुमानं यच्च तत् शेषवन्मतम् । तथाविधनदीपूराद् देवो वृष्टो यथोपरि ॥२१॥ यच्च सामान्यतोदृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥
प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३॥ शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं त्वात्मदेहाद्यं बुद्धीन्द्रियसुखादि च ॥ २४॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात् तत्तु साध्यं प्रयोजनम् ॥ २५ ॥ दृष्टान्तस्तु भवेदेष विवादविषयो न यः । सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥२६॥
प्रतिज्ञा - हेतु - दृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः सन्देहोपरमो भवेत् ॥२७॥ यथा काकादिसम्पातात्स्थाणुना भाव्यमत्र हि । ऊर्ध्वं सन्देह - तर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥ आचार्यशिष्ययोः पक्ष प्रतिपक्ष परिग्रहात् । या कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥ २९ ॥ विजिगीषुकथा या तु छलजात्यादिदूषणा । स जल्पः वितण्डा तु या प्रतिपक्षवर्जिता ॥३०॥
५९
Page #69
--------------------------------------------------------------------------
________________
६०
जैनदर्शनप्रवेशकः
हेत्वाभासा असिद्धाद्याश्छलः कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥ ३१ ॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानि-संन्यास-विरोधादिविभेदतः ॥३२॥
साङ्ख्यदर्शनम्
नैयायिकमतस्यैष समासः कथितो ह्यसौ । साङ्ख्याभिमतभावानामिदानीमयमुच्यते ||३३||
साङ्ख्या निरीश्वराः केचित् केचिदीश्वर - देवताः । सर्वेषामपि तेषां स्यात् तत्त्वानां पञ्चविंशतिः ॥३४॥ सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसाद-ताप-दैन्यादि-कार्यलिङ्गं क्रमेण तत् ॥३५॥ एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरुपिका ||३६|| ततः सञ्जायते बुद्धिर्महानिति यकोच्यते । अहङ्कारस्ततोऽपि स्यात् तस्मात्षोडशको गणः ||३७|| स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्यत्र तथा कर्मेन्द्रियाणि च ॥३८॥
पायूपस्थवच:पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्च रूपादितन्मात्राणीति षोडश ॥ ३९॥ रुपात्तेजो रसादापो गन्धाद् भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥४०॥ एवं चतुर्विंशतितत्त्वरूपं निवेदितं साङ्ख्यमते प्रधानम् ।
Page #70
--------------------------------------------------------------------------
________________
षड्दर्शनसमुच्चयः
अन्यस्त्वकर्ता विगुणश्च भोक्ता तत्त्वं पुमान्नित्यचिदभ्युपेतः ॥४१॥ पञ्चविंशतितत्त्वानि सङ्ख्ययैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥४२॥ प्रकृति-वियोगो मोक्षः पुरुषस्य बतैतदन्तरज्ञानात् । मानत्रितयं चात्र प्रत्यक्षं लैङ्गिकं शाब्दम् ॥४३।।
जैनदर्शनम् एवं साङ्ख्यमतस्यापि समासो गदितोऽधुना । जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥४४॥ जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हत-मोह-महामल्लः केवल-ज्ञान-दर्शनः ॥४५॥ सुरासुरेन्द्रसम्पूज्यः सद्भूतार्थ-प्रकाशकः । कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्तः परमं पदम् ॥४६॥ जीवाजीवौ तथा पुण्यं पापमास्रवसंवरौ । बन्धो विनिर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४७॥ तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीव: यश्चैतद्विपरीतवान् । अजीव: स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥४९॥ पापं तद्विपरीतं तु मिथ्यात्वाद्यास्तु हेतवः । ये बन्धस्य स विज्ञेय आस्रवो जिनशासने ॥५०॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योऽन्यानुगमात्मा तु य: सम्बन्धो द्वयोरपि ॥५१॥
Page #71
--------------------------------------------------------------------------
________________
६२
जैनदर्शनप्रवेशकः
बद्धस्य कर्मणः साटो यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ एतानि नव तत्त्वानि यः श्रद्धाते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथाभव्यत्वपाकेन यस्यैतत्त्रितयं भवेत् । सम्यग्ज्ञान-क्रियायोगाज्जायते मोक्षभाजनम् ॥५४॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥५५॥ अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥ ५६ ॥ येनोत्पाद-व्यय- ध्रौव्ययुक्तं यत् तत् सदिष्यते । अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥५७॥ जैनदर्शनसंक्षेप इत्येष गदितोऽनघः । पूर्वापरपराघातो यत्र क्वापि न विद्यते ॥५८॥
वैशेषिकदर्शनम्
देवताविषयो भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वे तु विद्यतेऽसौ निदिश्यते ॥५९॥ द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं तु तन्मते ॥ ६०॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च गुणाः पुनः पञ्चविंशतिधा ॥ ६१ ॥ स्पर्श-रस-रुप-गन्धाः शब्दः सङ्ख्या विभाग - संयोगे । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥६२॥
Page #72
--------------------------------------------------------------------------
________________
षड्दर्शनसमुच्चयः
बुद्धिः सुखदुःखेच्छा धर्माधर्मप्रयत्नसंस्काराः । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥६३॥ उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मैतत् परापरे द्वे तु सामान्ये ॥६४॥ तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ॥६५।। य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः स हि भवति समवायः ॥६६।। प्रमाणं च द्विधामीषां प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यैष संक्षेपः परिकीर्तितः ॥६७॥
.. मीमांसादर्शनम् जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥६८॥ तस्मादतीन्द्रियार्थानां साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥६९॥ अत एव पुरा कार्यो वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥७०॥ नोदनालक्षणो धर्मो नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्व:कामोऽग्नि यथा यजेद् ॥७१॥ प्रत्यक्षमनुमानं च शाब्दं चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥७२॥ तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां सति । आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥७३॥
Page #73
--------------------------------------------------------------------------
________________
६४
जैनदर्शनप्रवेशकः
शाब्दं शाश्वतवेदोत्थमुपमानं तु कीर्तितिम् । प्रसिद्धार्थस्य साधर्म्यादप्रसिद्धस्य साधनम् ॥७४॥ दृष्टार्थानुपपत्या तु कस्याप्यर्थस्य कल्पना । क्रियते यद्बलेनासावर्थापत्तिरुदाहृता ॥७५॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥७६॥ जैमिनीयमतस्यापि सङ्क्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सङ्क्षेपकीर्तनम् ॥७७॥ नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८॥ षड्दर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपे कथ्यते तेन तन्मतम् ॥७९॥ चार्वाकदर्शनम्
लोकायता वदन्त्येवं नास्ति जीवो न निवृतिः । धर्माधर्मो न विद्येते न फलं पुण्यपापयोः ॥८०॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्यत्यबहुश्रुताः ॥८१॥ पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥८२॥
पृथ्वी जलं तथा तेजो वायुर्भूतचतुष्टयम् । आधारो भूमिरेतेषां मानं त्वक्षजमेव हि ॥८३॥ पृथ्व्यादिभूतसंहत्या तथादेहपरिणतेः । मदशक्तिः सुराङ्गेभ्यो यद्वत् तद्वच्चिदात्मनि ॥८४॥
Page #74
--------------------------------------------------------------------------
________________
६५
षड्दर्शनसमुच्चयः
तस्माद् दृष्टपरित्यागाद् यददृष्टे प्रवर्तनम् । . लोकस्य तद् विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥८५॥ साध्यवृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मते तेषां धर्मः कामात् परो न हि ॥८६॥ लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥८७॥
वेदांतमतम् लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । वेदान्तिनां मतस्यासौ कथ्यमानो निशम्यताम् ॥१॥ वेदान्तिनः पुनः प्राहुबैतमतवादिनः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥२॥ अनिर्वाच्या हि मायात्र या विवर्तविधायिनी । विक्षेपावारशक्तिभ्यां सहिताध्यासकारणम् ॥३॥ आवारशक्तिर्मायायाः प्रोक्ता कर्तृत्वकारणम् । शक्तिविक्षेपरूपा च प्रपञ्चजननी मता ॥४॥ सर्वसत्त्वानुस्यूतं च ब्रह्मैवैकं च निर्गुणम् । सदाशुद्धं स्वतः सिद्धं तद्भिन्नं विद्यते न सत् ॥५॥ श्रवणान्मननाच्चैव निदिध्यासान्निरन्तरम् । समाधेरप्यनुष्ठानात् प्राप्यते ब्रह्म निश्चयम् ॥६॥ प्रमाणादिव्यवस्था च मीमांसासंमता मता । अभिधेयार्थतात्पर्यं पर्यालोच्यं सबुद्धिभिः ॥७॥ वैराग्यरतिनाज्ञेन वेदान्तमतप्रक्रिया । संक्षिप्ता पूरिता ह्यत्र बोधाय स्वाल्पमेधसाम् ॥८॥
Page #75
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता
अन्ययोगव्यवच्छेदद्वात्रिंशिका अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये ॥१॥ अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्ध; ॥२॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि सम्मील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥ स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥५॥ कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥६॥ न धर्मधर्मित्वमतीवभेदे वृत्त्यस्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकबाधः ॥७॥ सतामपि स्यात् क्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥८॥
Page #76
--------------------------------------------------------------------------
________________
अन्ययोगव्यवच्छेदद्वात्रिंशिका
६७ यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाबहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥९॥ स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन्नहो विरक्तो मुनिरन्यदीयः ॥१०॥ न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सा सब्रह्मचारि स्फुरितं परेषाम् ॥११॥ स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥१२॥ माया सती चेद् द्वयतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत् किं माता च वन्ध्या च भवेत्परेषाम् ॥१३॥ अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः ॥१४॥ चिदर्थशून्या च जडा च बुद्धिः शब्दादि तन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियज्जडैन ग्रथितं विरोधि ॥१५॥ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्विलूनशीर्णं सुगतेन्द्रजालम् ॥१६।। विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाणमहो सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥ कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते ॥१८॥ सा वासना सा क्षणसन्ततिश्च नाभेदभेदानुभयैर्घटते । ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु ॥१९॥
Page #77
--------------------------------------------------------------------------
________________
६८
जैनदर्शनप्रवेशकः विनानुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क्व चेष्टा क्व दृष्टमात्रं च हहा प्रमादः ॥२०॥ प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ॥२१॥ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः ॥२२॥ अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥२४॥ स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ॥२५।। य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिन ! शासनं ते ॥२६॥ नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतवादव्यसनासिनैव परैविलुप्तं जगदप्यशेषम् ॥२७॥ सदेव सत्स्यात् सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥२८॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षट्जीवकायं त्वमनन्तसङ्ख्यमाख्यस्तथा नाथ ! यथा न दोषः ॥२९॥ अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथा ते ॥३०॥
Page #78
--------------------------------------------------------------------------
________________
अन्ययोगव्यवच्छेदद्वात्रिंशिका वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य ! । लङ्घम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिमपानतृष्णाम् ॥३१॥ इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरैर्हा विनिहितम् ।। तदुद्धर्तुं शक्तो नियतमविसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥३२॥
Page #79
--------------------------------------------------------------------------
Page #80
--------------------------------------------------------------------------
________________ श्रीविजयमहोदयसूरिग्रंथमाला - 24 MEANITALIATELLITELETTERSITrimmalinimum A000OOSUப்பUைRDCOOD utivitr444144SSHAVE doo Loc0 ठरहा A 60 श्री आशापुरा धावा GO नाभ: लेज: શા. વિમળાબેન સરેમલ જc હીરાજૈન સોસાયટી, રામનગર, प्रवचन प्रकाशन