________________
१४
जैनदर्शनप्रवेशकः विरुद्धकारणोपलब्धिर्यथा-नास्य महर्षेरसत्यं वचः समस्ति, रागद्वेषकालुष्याऽकलङ्कितज्ञानसंपन्नत्वात् ॥८९॥ विरुद्धपूर्वचरोपलब्धिर्यथा-नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा, रोहिण्युद्गमात् ॥१०॥ विरुद्धोतरचरोपलब्धिर्यथा-नोदगान्मुहूर्तात्पूर्वं मृगशिरः, पूर्वफल्गुन्युदयात् ॥९१॥ विरुद्धसहचरोपलब्धिर्यथा-नास्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनात् ॥९२।। अनुपलब्धेरपि द्वैरुप्यम्, अविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च ॥९३॥ तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा ॥९॥ प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिः ॥९५॥ स्वभावानुपलब्धिर्यथा-नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् ॥९॥ व्यापकानुपलब्धिर्यथा-नास्त्यत्र प्रदेशे पनसः पादपानुपलब्धेः ॥९७॥ कार्यानुपलब्धिर्यथा-नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कुरानवलोकनात् ॥९८॥ कारणानुपलब्धिर्यथा-न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाभावात् ॥१९॥ पूर्वचरानुपलब्धिर्यथा-नोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रं चित्रोदयादयाऽदर्शनात् ॥१००॥ उत्तरचरानुपलब्धिर्यथा-नोदगमत् पूर्वभद्रपदा मुहूर्तात्पूर्वमुत्तरभद्रपदोद्गमानवगमात् ॥१०॥