________________
जैनदर्शनप्रवेशकः स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् ॥१२॥ सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥१३॥ प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥१४॥ साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः ॥१५॥ धर्मी प्रमाणसिद्धः ॥१६॥ बुद्धिसिद्धोऽपि ॥१७॥ न दृष्टान्तोऽनुमानाङ्गम् ॥१८॥ साधनमात्रात् तत्सिद्धेः ॥१९॥ स व्याप्तिदर्शनभूमिः ॥२०॥ स साधर्म्यवैधाभ्यां द्वेधा ॥२१॥ साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥२२॥ साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्यदृष्टान्तः ॥२३॥
द्वितीयस्याध्यायस्य प्रथममाह्निकम् यथोक्तसाधनाभिधानजः परार्थम् ॥१॥ वचनमुपचारात् ॥२॥ तवेधा ॥३॥ तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥४॥ नानयोस्तात्पर्ये भेदः ॥५॥ अत एव नोभयोः प्रयोगः ॥६॥ विषयोपदर्शनार्थं तु प्रतिज्ञा ॥७॥ गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवत् तदुपपत्तिः ॥८॥ एतावान् प्रेक्षप्रयोगः ॥९॥ बोध्यानुरोधात् प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चापि ॥१०॥ साध्यनिर्देशः प्रतिज्ञा ॥११॥ साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥१२॥ दृष्टान्तवचनमुदाहरणम् ॥१३॥