________________
जैनदर्शनप्रवेशकः यथाऽयं स्थाणुर्वा पुरुषो वा ॥१३॥ किमित्यालोचनमात्रमनध्यवसायः ॥१४॥ यथा गच्छत्तृणस्पर्शज्ञानम् ॥१५।। ज्ञानादन्योऽर्थः परः ॥१६॥ स्वस्य व्यवसाय: स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभिमुख्येन, करिकलभकमहमात्मना जानामि ॥१७॥ कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं नाभिमन्येत ? मिहिरालोकवत् ॥१८॥ ज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम् ॥१९॥ तदितरत्त्वप्रामाण्यम् ॥२०॥ तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्च ॥२१॥
द्वितीयः परिच्छेदः तद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥१॥ स्पष्टं प्रत्यक्षम् ॥२॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥३॥ तद् द्विप्रकारं-सांव्यवहारिकं पारमार्थिकं च ॥४॥ तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥५॥ एतद् द्वितयमवग्रहेहावायधारणाभेदादेकशश्चतुर्विकल्पकम् ॥६॥ विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥७॥ . अवगृहीतार्थविशेषाऽऽकाङ्क्षणमीहा ॥८॥