________________
प्रमाणनयतत्त्वालोकः ईहितविशेषनिर्णयोऽवायः ॥९॥ स एव दृढतमावस्थाऽऽपन्नो धारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयाद् भेदः ॥११॥ कथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः ॥१२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतयाऽनुभूयमानत्वात् अपूर्वपूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥१३॥ . क्रमोऽप्यमीषामयमेव, तथैव संवेदनात्; एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च ॥१४॥ अन्यथा प्रमेयानवगतिप्रसङ्गः ॥१५॥ न खल्वदृष्टमवगृह्यते, न चानवगृहीतं संदिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, नाप्यनवेतं धार्यते ॥१६॥ क्वचित् क्रमस्यानुपलक्षणमेषामाशूत्पादात् , उत्पलपत्रशतव्यतिभेदक्रमवत् ॥१७॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥१८॥ तद् विकलं सकलं च ॥१९॥ तत्र विकलमवधिमनःपर्यायज्ञानरूपतया द्वेधा ॥२०॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ॥२१॥ संयमविशुद्धिनिबन्धनाद् विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥२२॥ सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ॥२३॥