________________
जैनदर्शनप्रवेशकः तद्वान् अर्हन् निर्दोषत्वात् ॥२४॥ निर्दोषोऽसौ, प्रमाणाविरोधिवाक्त्वात् ॥२५॥ तदिष्टस्य प्रमाणेनाऽबाध्यत्वात् तद्वाचस्तेनाविरोधसिद्धिः ॥२६॥ न च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम्, कवलाहारसर्वज्ञत्वयोरविरोधात् ॥२७॥
तृतीयः परिच्छेदः अस्पष्टं परोक्षम् ॥१॥ स्मरण-प्रत्यभिज्ञान-तर्कानुमानागमभेदतस्तत् पञ्चप्रकारम् ॥२॥ तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ॥३॥ 'तत्तीर्थकरबिम्बम्' इति यथा ॥४॥ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं, संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥५॥ "तज्जातीय एवायं गोपिण्डः", "गोसदृशो गवयः", "स एवायं जिनदत्तः" इत्यादि ॥६॥ उपलम्भानुपलम्भसम्भवं, त्रिकालीकलितसाध्यसाधनसम्बन्धालम्बनं, "इदमस्मिन् सत्येव भवति" इत्याद्याकारं संवेदनमूहापरनामा तर्कः ।।७।। यथा यावान् कश्चिद् धूमः, स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येव ॥८॥ अनुमानं द्विप्रकारं स्वार्थं परार्थं च ॥९॥ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥१०॥ निश्चातान्यथानुपपत्त्येकलक्षणो हेतुः ॥११॥