SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चयः सद्दर्शनं जिन नत्वा वीरं स्याद्वाददेशकम् । सर्व-दर्शन-वाच्योऽर्थः संक्षेपेण निगद्यते ॥१॥ दर्शनानि षडेवात्र मूल-भेद-व्यपेक्षया । देवता-तत्त्व-भेदेन ज्ञातव्यानि मनीषिभिः ॥२॥ बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ! ॥३॥ बौद्धदर्शनम् तत्र बौद्धमते तावद् देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररुपकः ॥४॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना सञ्ज्ञा संस्कारो रूपमेव च ॥५॥ समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयभावाख्यः समुदयः स उदाहृतः ॥६॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना यका । स मार्ग इह विज्ञेयो निरोधो मोक्ष उच्यते ॥७॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥८॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy