________________
प्रमाणनयतत्त्वालोकः
अष्टमः परिच्छेदः
विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः ॥१॥ प्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च ॥२॥ स्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः ॥३॥ तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥४॥ अयं च द्वधा स्वात्मनि परत्र च ॥५॥ आद्यः शिष्यादिः ॥६॥ द्वितीयो गुर्वादिः ॥७॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८॥ एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥९॥ तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौःस्थ्यापत्तेः ॥१०॥ द्वितीये तृतीयस्य कदाचिद् व्यङ्गः, कदाचित् व्यङ्गः ॥११॥ तत्रैव व्यङ्गस्तुरीयस्य ॥१२॥ तृतीये प्रथमादीनां यथायोगं पूर्ववत् ॥१३॥ तुरीये प्रथमादीनामेवम् ॥१४॥ वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि ॥१५॥ प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥१६॥ प्रमाणत: स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥१७॥