SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २८ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४५॥ पूर्व: पूर्वो नय: प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥४६॥ सन्मात्रगोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषयः || ४७৷৷ सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः ॥ ४८ ॥ वर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः जैनदर्शनप्रवेशकः ॥४९॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृऋजुसूत्रस्तद्विपरीतवेदकत्वान् महार्थः ॥५०॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ॥५१॥ प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथाऽर्थ - स्थापकत्वान्महागोचरः ॥५२॥ नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥५३॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥५४॥ प्रमाता प्रत्यक्षादिप्रसिद्ध आत्मा ॥५५॥ चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्धोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्न: पौद्गलिकादृष्टवांश्चायम् ॥५६॥ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः ॥५७॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy