SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जैनदर्शनप्रवेशकः स्वेष्टार्थसाधकमबाधितं गूढपदसमूहात्मकं प्रसिद्धावयवोपेतं वाक्यं पत्रम् ॥३६॥ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् अतिरस्कृतान्यपक्षोऽभिप्रेतपदार्थांशग्राही ज्ञातुरभिप्रायो नयः ॥१॥ द्रव्यपर्यायान्यतरस्य उभयस्य वा गौणमुख्यभावेन प्ररुपणप्रवीणो नैगमः ॥२॥ अनिष्पन्नपर्यायस्य संकल्पमात्रग्राही नेगमः ॥३॥ अभेदरूपतया वस्तुजातस्य संग्राहकः संग्रहः ॥४॥ संग्रहगृहीतार्थानां भेदरूपतया विधिपूर्वकं व्यवहरणं व्यवहारः ॥५॥ वर्तमानमात्रपर्यायग्राही ऋजुसूत्रः ॥६॥ कालादिभेदेन शब्दस्य भिन्नार्थवाचकत्वेन अभ्युपगमपरः शब्दः ॥७॥ निरुक्तिभेदजन्यभिन्नपर्यायवाचकशब्दात् पदार्थनानात्वनिरुपकः समभिरुढः ॥८॥ शब्दप्रवृत्तिनिमित्तभूतक्रियायुक्तस्य अर्थस्य तच्छब्दवाच्यत्वेन प्ररुपक एवम्भूतः ॥९॥ द्वितीयस्याध्यायस्य तृतीयमाह्निकम् संयोग-समवाय-विशिष्टसामान्यान्यतमावच्छेदेन नास्तीति प्रतीतिविषयोऽत्यन्ताभावः ॥१॥ कार्याकारव्यावृत्तिमान् कार्यपूर्वपर्याय एव प्राग्भावः [प्रतियोग्युपादाने कार्यप्राक्कालावच्छेदेन एतत्कार्यं भविष्यति इति प्रतीतिविषयत्वं प्रागभावः] ॥२॥ कार्यकारव्यावृत्तिमान् कार्योत्तरपर्यायोध्वंसः [प्रतियोग्युपादाने कार्योत्तर दितीय
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy