________________
प्रमाणनयतत्त्वालोकः पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥२९॥ यथा शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु, सप्तद्वीपसमुद्रज्ञानम् ॥३०॥ अननुभूते वस्तुनि तदितिज्ञानं स्मरणाभासम् ॥३१॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥३२॥ तुल्ये पदार्थे स एवायमिति, एकस्मिश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञानाभासम् ॥३३॥ यमलकजातवत् ॥३४॥ असत्यामपि व्याप्तौ तदवभासस्ताभासः ॥३५॥ स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति यथा ॥३६॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥३७॥ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥३८॥ प्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान् प्रत्यवधारणवर्जं परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥३९॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥४१॥ अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरागो वा
॥४२॥
आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनीभोजनं भजनीयम् ॥४३॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥४४॥