________________
२०
जैनदर्शनप्रवेशकः कथञ्चित्तस्यापि प्रमाणाद् भेदेन व्यवस्थानात् ॥१३॥ साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥१४॥ प्रमाणं हि करणाख्यं साधनम् स्वपरव्यवसितौ साधकतमत्वात् ॥१५॥ स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम् प्रमाणनिष्पाद्यत्वात् ॥१६॥ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदः ॥१७॥ कर्तृक्रिययोः साध्य-साधकभावेनोपलम्भात् ॥१८॥ कर्ता हि साधकः, स्वतन्त्रत्वात्; क्रिया तु साध्या, कर्तृनिर्वर्त्यत्वात् ॥१९॥ न च क्रिया क्रियावतः सकाशादभिन्नैव, भिन्नैव वा, प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् ॥२०॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥२१॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः ॥२२॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥२३॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः ॥२४॥ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासक-ज्ञान-दर्शन-विपर्ययसंशयानध्यवसायाः ॥२५॥ तेभ्यः स्वपव्यवसायस्यानुपपत्तेः ॥२६।। सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥२७॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥२८॥