________________
प्रमाणनयतत्त्वालोकः समर्थनमेव परप्रतिपत्त्यङ्गमास्तां, तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसम्भवात् ॥४१॥ मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥४२॥ प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्तः ॥४३॥ स द्वेधा साधर्म्यतो वैधयंतश्च ॥४४॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते, स साधर्म्यदृष्टान्तः ॥४५॥ यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसः ॥४६॥ यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्श्यते स वैधर्म्यदृष्टान्तः
॥४७॥
यथा-अग्न्यभावे न भवत्येव धूमः, यथा जलाशये ॥४८॥ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः ॥४९॥ यथा धूमश्चात्र प्रदेशे ॥५०॥ साध्यधर्मस्य पुनर्निगमनम् ॥५१॥ यथा-तस्मादग्निरत्र ॥५२॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥५३॥ उक्तलक्षणो हेतुर्द्विप्रकार:-उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ॥५४॥ उपलब्धिविधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च ॥५५॥ विधिः सदंशः ॥५६॥ प्रतिषेधोऽसदंशः ॥५७॥ स चतुर्धा-प्रागभावः, प्रध्वंसाभाव, इतरेतराभावोऽत्यन्ताभावश्च ॥५८॥