________________
न्यायावतारः
साध्ये निवर्तमाने तु साधनस्याप्यसम्भवः । ख्याप्यते यत्र दृष्टान्ते वैध\णेति स स्मृतः ॥१९॥ अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥ प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽक्षलिङ्गतः । लोक-स्ववचनाभ्यां च बाधितोऽनेकधा मतः ॥२१॥ अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसन्देहविपर्यासैस्तदाभता ॥२२॥ असिद्धस्त्वप्रतीतो यो, योऽन्यथैवोपपाद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥२३॥ साधर्म्यणात्र दृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः साध्यादिविकलादयः ॥२४॥ वैधर्येणात्र दृष्टान्तदोषा न्यायविदीरिताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥२५॥ वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् । दूषणं निरवद्ये तु दूषणाभासनामकम् ॥२६॥ सकलावरणमुक्तात्मकेवलं यत्प्रकाशते । प्रत्यक्षं सकलात्मसततप्रतिभासनम् ॥२७॥ प्रमाणस्य फलं साक्षादज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥२८॥ अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥२९।।