Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 70
________________ षड्दर्शनसमुच्चयः अन्यस्त्वकर्ता विगुणश्च भोक्ता तत्त्वं पुमान्नित्यचिदभ्युपेतः ॥४१॥ पञ्चविंशतितत्त्वानि सङ्ख्ययैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥४२॥ प्रकृति-वियोगो मोक्षः पुरुषस्य बतैतदन्तरज्ञानात् । मानत्रितयं चात्र प्रत्यक्षं लैङ्गिकं शाब्दम् ॥४३।। जैनदर्शनम् एवं साङ्ख्यमतस्यापि समासो गदितोऽधुना । जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥४४॥ जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हत-मोह-महामल्लः केवल-ज्ञान-दर्शनः ॥४५॥ सुरासुरेन्द्रसम्पूज्यः सद्भूतार्थ-प्रकाशकः । कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्तः परमं पदम् ॥४६॥ जीवाजीवौ तथा पुण्यं पापमास्रवसंवरौ । बन्धो विनिर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४७॥ तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीव: यश्चैतद्विपरीतवान् । अजीव: स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥४९॥ पापं तद्विपरीतं तु मिथ्यात्वाद्यास्तु हेतवः । ये बन्धस्य स विज्ञेय आस्रवो जिनशासने ॥५०॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योऽन्यानुगमात्मा तु य: सम्बन्धो द्वयोरपि ॥५१॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80