Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 69
________________ ६० जैनदर्शनप्रवेशकः हेत्वाभासा असिद्धाद्याश्छलः कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिर्दूष्यते न यैः ॥ ३१ ॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानि-संन्यास-विरोधादिविभेदतः ॥३२॥ साङ्ख्यदर्शनम् नैयायिकमतस्यैष समासः कथितो ह्यसौ । साङ्ख्याभिमतभावानामिदानीमयमुच्यते ||३३|| साङ्ख्या निरीश्वराः केचित् केचिदीश्वर - देवताः । सर्वेषामपि तेषां स्यात् तत्त्वानां पञ्चविंशतिः ॥३४॥ सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसाद-ताप-दैन्यादि-कार्यलिङ्गं क्रमेण तत् ॥३५॥ एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरुपिका ||३६|| ततः सञ्जायते बुद्धिर्महानिति यकोच्यते । अहङ्कारस्ततोऽपि स्यात् तस्मात्षोडशको गणः ||३७|| स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्यत्र तथा कर्मेन्द्रियाणि च ॥३८॥ पायूपस्थवच:पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्च रूपादितन्मात्राणीति षोडश ॥ ३९॥ रुपात्तेजो रसादापो गन्धाद् भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥४०॥ एवं चतुर्विंशतितत्त्वरूपं निवेदितं साङ्ख्यमते प्रधानम् ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80