Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 67
________________ जैनदर्शनप्रवेशकः प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥ प्रत्यक्षं कल्पनापोढमभ्रान्तं तत्र बुध्यताम् । त्रिरुपाल्लिङ्गतो लिङ्गज्ञानं त्वनुमानसज्ञितम् ॥१०॥ रुपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिता हेतोरेवं त्रीणि विभाव्यताम् ॥११॥ न्यायदर्शनम् बौद्धराद्धान्त-वाच्यस्य संक्षेपोऽयं निवेदितः । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ आक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥१३॥ तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥१४॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥१५॥ जातयो निग्रहस्थानान्येषामेवं प्ररुपणा । अर्थोपलब्धिहेतुः स्यात् प्रमाणं तच्चतुर्विधम् ॥१६॥ प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा । तत्रेन्द्रियार्थसंपर्कोत्पन्नमव्यभिचारि च ॥१७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्षमनुमानं तु तत्पूर्वं त्रिविधं भवेत् ॥१८॥ पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राद्यं कारणात् कार्यानुमानमिह गीयते ॥१९॥

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80