Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 74
________________ ६५ षड्दर्शनसमुच्चयः तस्माद् दृष्टपरित्यागाद् यददृष्टे प्रवर्तनम् । . लोकस्य तद् विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥८५॥ साध्यवृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते जने । निरर्था सा मते तेषां धर्मः कामात् परो न हि ॥८६॥ लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥८७॥ वेदांतमतम् लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । वेदान्तिनां मतस्यासौ कथ्यमानो निशम्यताम् ॥१॥ वेदान्तिनः पुनः प्राहुबैतमतवादिनः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥२॥ अनिर्वाच्या हि मायात्र या विवर्तविधायिनी । विक्षेपावारशक्तिभ्यां सहिताध्यासकारणम् ॥३॥ आवारशक्तिर्मायायाः प्रोक्ता कर्तृत्वकारणम् । शक्तिविक्षेपरूपा च प्रपञ्चजननी मता ॥४॥ सर्वसत्त्वानुस्यूतं च ब्रह्मैवैकं च निर्गुणम् । सदाशुद्धं स्वतः सिद्धं तद्भिन्नं विद्यते न सत् ॥५॥ श्रवणान्मननाच्चैव निदिध्यासान्निरन्तरम् । समाधेरप्यनुष्ठानात् प्राप्यते ब्रह्म निश्चयम् ॥६॥ प्रमाणादिव्यवस्था च मीमांसासंमता मता । अभिधेयार्थतात्पर्यं पर्यालोच्यं सबुद्धिभिः ॥७॥ वैराग्यरतिनाज्ञेन वेदान्तमतप्रक्रिया । संक्षिप्ता पूरिता ह्यत्र बोधाय स्वाल्पमेधसाम् ॥८॥

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80