Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 35
________________ २६ जैनदर्शनप्रवेशकः सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ॥१३।। अयमुभयविकल्पः परोऽपरश्च ॥१४॥ अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः ॥१५॥ विश्वमेकं सदविशेषादिति यथा ॥१६॥ सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ॥१७॥ यथा सत्तैव तत्त्वं, ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥१८॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः ॥१९॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥२०॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निढुवानस्तदाभासः ॥२१॥ यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः ॥२२॥ सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ॥२३॥ यथा यत् सत् , तद् द्रव्यं पर्यायो वेत्यादिः ॥२४॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ॥२५।। यथा चार्वाकदर्शनम् ॥२६॥ पर्यायार्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च ॥२७॥ ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥२८॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80