Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 36
________________ प्रमाणनयतत्त्वालोकः २७ यथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः ॥२९॥ सर्वथा द्रव्यापलापी तदाभासः ॥३०॥ यथा तथागतमतम् ॥३१॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥३२॥ यथा-बभूव भवति भविष्यति सुमेरित्यादिः ॥३३।। तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥३४॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ॥३५॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः ॥३६।। इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥३८॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया एव, भिन्नशब्दत्वाद् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥३९॥ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः ॥४०॥ यथेन्दनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः, पूरणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः ॥४२॥ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥४३॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ॥४४॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80