Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
नयकर्णिका
वनस्पति गृहाणेति, प्रोक्ते गृह्णाति कोऽपि किम् । विना विशेषान्नाम्रादींस्तन्निरर्थकमेव तत् ॥९॥ व्रणपिण्डीपादलेपादिके लोकप्रयोजने । उपयोगो विशेषैः स्यात्, सामान्येन हि कहिचित् ॥१०॥ ऋजुसूत्रनयो वस्तु, नातीतं नाप्यनागतम् । मन्यते केवलं किन्तु, वर्तमानं तथा निजम् ॥११॥ अतीतेनानागतेन, परकीयेन वस्तुना । न कार्यसिद्धिरित्येतदसद् गगनपद्मवत् ॥१२॥ नामादिषु चतुर्वेषु, भावमेव च मन्यते । न नामस्थापनाद्रव्याण्येवमग्रेतना अपि ॥१३॥ अर्थं शब्दनयोऽनेकैः, पर्यायैरेकमेव च । मन्यते कुम्भकलशघटाघेकार्थवाचकाः ॥१४॥ ब्रूते समभिरूढोऽर्थं, भिन्नं पर्यायभेदतः । भिन्नार्थाः कुम्भकलशघट घटपटादिवत् ॥१५॥ यदि पर्यायभेदेऽपि, न भेदो वस्तुनो भवेत् । भिन्नपर्याययोर्न स्यात्, स कुम्भपटयोरपि ॥१६॥ एकपर्यायाभिधेयमपि वस्तु च मन्यते । कार्यं स्यकीयं कुर्वाणमेवम्भूतनयो ध्रुवम् ॥१७॥ यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् । तदा पटेऽपि न घटव्यपदेशः किमिष्यते ? ॥१८॥ यथोत्तरं विशुद्धाः स्युर्नयाः सप्ताप्यमी तथा । एकैक: स्याच्छतं भेदास्ततः सप्तशतान्यमी ॥१९॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80