Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 63
________________ उपाध्याय श्रीविनयविजयजीकृतनयकर्णिका वर्धमानं स्तुमः सर्वनयनद्यर्णवागमम् । संक्षेपतस्तदुन्नीतनयभेदानुवादतः ॥१॥ नैगमः सङ्ग्रहश्चैव, व्यवहारर्जुसूत्रकौ । शब्दः समभिरूद्वैवम्भूतौ चेति नया स्मृताः ॥२॥ अर्थाः सर्वेऽपि हि सामान्यविशेषोभयात्मकाः । सामान्यं तत्र जात्यादि, विशेषाश्च विभेदकाः ॥३॥ ऐक्यबुद्धिर्घटशते, भवेत्सामान्यधर्मतः । विशेषाच्च निजं निजं, लक्षयन्ति घटं जनाः ॥४॥ नैगमो मन्यते वस्तु, तदेतदुभयात्मकं । निर्विशेषं न सामान्यं, विशेषोऽपि न तद्विना ॥५॥ सङ्ग्रहो मन्यते वस्तु, सामान्यात्मकमेव हि । सामान्यव्यतिरिक्तोऽस्ति, न विशेषः खपुष्पवत् ॥६॥ विना वनस्पति कोऽपि, निम्बाम्रादिर्न दृश्यते । हस्ताद्यन्त विन्यो, नामुल्याद्यास्ततः पृथक् ॥७॥ विशेषात्मकमेवार्थं, व्यवहारश्च मन्यते । विशेषभिन्नं सामान्यमसत्खरविषाणवत् ॥८॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80