Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 34
________________ प्रमाणनयतत्त्वालोकः सन्ति, त्वरितं गच्छत गच्छत शावकाः ॥८४|| प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याभासम् ॥८५।। सामान्यमेव, विशेष एव, तद्द्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥८६॥ अभिन्नमेव, भिन्नमेव, वा प्रमाणात् फलं तस्य तदाभासम् ॥८७॥ सप्तमः परिच्छेदः नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥७॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥२॥ स व्याससमासाभ्यां द्विप्रकारः ॥३॥ व्यासतोऽनेकविकल्पः ॥४॥ समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥५॥ आद्यो नैगमसङ्ग्रहव्यवहारभेदात् त्रेधा ॥६॥ धर्मयोधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥७॥ सच्चैतन्यमात्मनीति धर्मयोः ॥८॥ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥१०॥ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥११॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥१२॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80