Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 44
________________ ३५ प्रमाणमीमांसाः धर्मिणि साधनस्योपसंहार उपनयः भारतमा साध्यस्य निगमनम् ॥१५॥ असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥१६॥ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वाऽसिद्धः ॥१७॥ वादिप्रतिवाद्युभयभेदाच्चैतद्भेदः ॥१८॥ विशेष्यासिद्धादीनामेष्वन्तर्भावः ॥१९॥ विपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः ॥२०॥ नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः ॥२१॥ साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥२२॥ अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटः साध्यसाधनोभयविकला: ॥२३॥ वैधयेण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ॥२४॥ वचनाद्रागे रागान्मरणधर्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्यापुरुषादयः ॥२५॥ विपरीतान्वयव्यतिरेकौ ॥२६॥ अप्रदर्शितान्वयव्यतिरेकौ ॥२७॥ साधनदोषोद्भावनं दूषणम् ॥२८॥ अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥२९॥ तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः ॥३०॥ स्वपक्षस्य सिद्धिर्जयः ॥३१॥ असिद्धिः पराजयः ॥३२॥ स निग्रहो वादिप्रतिवादिनोः ॥३३॥ न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥३४॥ .. नाऽप्यसाधनाङ्गवचनमदोषोद्भावने ॥३५॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80