Book Title: Jain Darshan Praveshak
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
२२
जैनदर्शनप्रवेशकः स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् ॥४५॥ अनभीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः ॥४६॥ असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥ यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः ॥४८॥ स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥४९॥ उभयासिद्धो-यथा परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥ अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात् ॥५१॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥५२॥ यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिसत्त्वात् ॥५३॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ॥५४॥ स द्वेधा-निर्णीतविपक्षवृत्तिकः, सन्दिग्धविपक्षवृत्तिकश्व ॥५५॥ निर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् ॥५६॥ सन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥५७॥ साधर्म्यण दृष्टान्ताभासो नवप्रकारः ॥५८॥ साध्यधर्मविकलः साधनधर्मविकलः उभयधर्मविकलः सन्दिग्धसाध्यधर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्मा अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति ॥५९॥ तत्रापौरुषेयः शब्दोऽमूर्तत्वात् दुःखवदिति साध्यधर्मविकलः ॥६०॥

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80