Book Title: Hemsamiksha Author(s): Madhusudan Modi Publisher: Atmanand Janma Shatabdi Smarak Trust View full book textPage 9
________________ ग्रन्थकर्तुः प्रारम्भोक्तयः । धृतग्रन्थौघशस्त्रास्त्रैः साहित्यस्याक्षवाटके | वाग्युद्धे युध्यते वीरैर्यैस्तेभ्यः शतधा नमः ॥ १ ॥ अमर्षोत्प्लुष्टचित्तांस्तानन्वेवाहं च शारदाम् । शुक्लाम्बरधरां सौम्यां नत्वेमं ग्रन्थमारमे ॥ २ ॥ ग्रन्थशस्त्रभृतां मन्योः शमोऽत्यर्थे हि दुष्करः । सरस्वत्याः सुधावर्षी प्रसादोऽस्ति सनातनः ॥ ३ ॥ गुणमेरुश्च तैः सद्भिः सर्षपीक्रियतेऽचिरात् भक्ताहृतगुणाणुस्तु हेमाद्रिर्मन्यते ऽनया ॥ ४ ॥ विवेकं वस्तुनो ज्ञात्वा मनोवैक्लव्यभीरुणा शारदायाः स्तुतिः पश्चात्स्तुतेस्तेषां निधीयते ॥ ५ ॥ यः सुक्षैः सर्ववित्प्रोक्तः कलिकालेऽपि सूरिराट् तस्य श्रीहेमचन्द्रस्य प्रमाणं मेऽत्र वर्तताम् ॥ ६ ॥ " श्रेयोऽर्थमयमारम्भः किं तत्रात्मविकत्थनैः परात्मनिन्दास्तोत्रे हि नाद्रियन्ते मनीषिणः " ॥ ७ ॥ वैदुष्यं दूषयन्त्येके मार्जन्त्येके च दूषणम् स्वभावो यादृशः पुंसामाविष्कारोऽपि तादृशः ॥ ८ ॥ यः सिषाधयिषुः श्रेयो लोकानां गुर्जरावनौ निर्मायानन्तशास्त्राणि ब्रह्मकीर्ति तिरोदधे ॥ ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 400