Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्त्री।
अथ पूरकप्राणायाममाहद्वादशाङ्गुलपर्यन्तं, समाकृष्य समीरणम् । पूरयत्यतियत्नेन, पूरकध्यानयोगतः ॥ २०१॥ नासान्तनभसो ऽष्ठ्यं हि द्वय ब्धि संख्याकुलोत्तरा। तेजो-वायु-पृथिव्यम्बु ४ बहिर्गतेरुदाहृता ॥२०२॥
अथ रेचकप्राणायाममाहनिस्सार्यते ततो यत्नान्नाभिपद्मोदराच्छनैः। योगिना योगसामर्थ्याद्, रेचकाख्यः प्रभञ्जनः ॥ २०३॥
अथ कुम्भकध्यानमाह-- कुम्भवत् कुम्भकं योगी, श्वसनं नाभिपङ्कजे । कुम्भकध्यानयोगेन, सुस्थिरं कुरुते क्षणम् ॥२०४॥
अथ पवनजयेन मनोजयमाहइत्येवं गन्धवाहानामाऽकुश्चनविनिर्गमौ । संसाध्य निश्चलं धत्ते, चित्तमेकाप्रचिन्तने ॥ २०५॥ दुग्धाम्बुवत्संमिलि तौ सदैव, तुल्यक्रियौ मानसमारुतौ हि । यावन्मनस्तत्र मरुत्प्रवृत्तिर्यावन्मरुत्तत्र मनःप्रवृत्तिः ॥ २०६॥ तत्रैकनाशादपरस्य नाशः, एकप्रवृत्तेरपरप्रवृत्तिः । विध्वस्तयोरिन्द्रियवर्गशुद्धि,-स्तद्ध्वंसनान्मोक्षपदस्य सिद्धिः ।। २०७॥ निच्छ यओ दुन्नेअं, को भावे कम्मि वट्टई समणो। बवहारओ अ कीरइ, जो पुवंडिओ चरित्तमि ॥ २०८ ॥
[इति श्रीआवश्यकनियुक्ती भाष्यकारोऽप्याह (२६९) u] वैवहारोऽवि हु बलवं, जं छउमत्थं पि वंदई अरिहा । जा होइ अगाभिन्नो, जाणतो धम्मयं एअं ॥ २०९॥
गुणाहिए वंदणयं, छउमत्थो गुणागुणे अयाणंतो । वंदिज्जा व गुणहीणं, गुणाहिलं वावि वंदाचे ॥ २१०॥
उत्तरमाह--
आलएणं १ विहारेणं २, ठाणा ३ चंकमणेण य ४ । सक्को सुविहिओ नाउं, भासा ५ वेणइएण य ॥ २११ ॥ मायरं १ पियरं २ वावि, जेट्टगं वावि भायरं ३ । किइकम्मं न कारिजा, सवे रायणिए तहा ।। २१२ ॥
[आवश्यकनियुक्तौ पृ० ५४० ॥]
--
---
---
१-वारुणमण्डलप्रचारावसरेऽमृतमय बहिस्तात् ४ अकुल, ६ अकुल, ८ अङ्गुल, १२ अङ्कल । २-यत्र मनस्तत्र पवनी यत्र पवनस्तत्र मनो वर्तते यदाह-'दुग्धे०' ति ॥ ३-निधयतो दुज्ञेयं को भावे कस्मिन् प्रशस्ते अप्रशस्ते वा वर्तते श्रमण इति भाषश्वेह ज्येष्ठः ततः अनतिशयिनः चन्दनकाभावः एव प्राप्तः इत्यतो विधिमभिधित्सुराह-व्यवहारस्तु क्रियते चन्दनं यतः पूर्व स्थितश्चारित्रे यः प्रथम प्रवजितः सन्नुपलब्धातिचारः इति गाथार्थः ।। २०८॥ आह-सम्यकू तद्गतभावाऽपरिज्ञाने सति किमित्येतदेवमित्युच्यते व्यवहारप्रामाण्यात्तस्यापि च बलवत्त्वादाह भाष्यकारः॥ ४-व्यवहारोऽपि बलवानेव यद्यस्मात्कारणात् छअस्थमपि पूर्वरत्नाधिकं गुर्वादिकं वदन्ते, अर्हन्नपि केवल्यपि, अपिशब्दोऽत्रापि संबध्यते, किं सदा नेत्याह-जा होइ अपाभिन्नत्ति यावत् भवति अनभिज्ञातो यथाऽयं केवलीति, किमिति वन्दते ! इत्याह-जानन् धर्माता एतां व्यवहारबलातिशयलक्षणामिति गाथार्थः ॥ २०९ ॥ ५-इत्थं नोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्वपरिज्ञानकरणानि प्रतिपादयनाचार्य आह-'आलए.' आलयः बसतिः सुप्रमार्जितादिलक्षणा अथवा स्त्रीपशुपण्डकवर्जितेति तेनाऽऽलयेन नागुणवत एवंविधः खलु आलयो भवति, विहारो मासकल्पादिकस्तेन विहारेण स्थानमूर्द्धस्थानं चक्रमणं गमनं चेत्येकवद्भावस्ते नमन्तः आविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्धतगमने चेत्यर्थः शक्यः सुविहितो ज्ञातुं भाषा वैनयिकेन च, विनय एवं वैनयिक समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ॥ २११॥ ६-'माय०' मातरं पितरं वापि ज्येष्ठं वा भ्रातरम्, अपिशब्दान्मातामहपितामहादिपरिग्रहः, कृतिकर्म-अभ्युत्थितवन्दनमित्यर्थः न कारयेत् सर्वान् रत्नाधिकांस्तथा पर्यायज्येष्टानित्यर्थः । किमिति मात्रादीन् वन्दनं कारयतः लोकगोपजायते, तेषां च कदाचिद्विपरिणामो भवति आलोचनप्रत्याख्यानसूत्रार्थे तु कारयेत्, सागारिकाध्यक्षं तु यतनया कारयेत्, एष प्रवज्याप्रतिपनानां विधिः, गृहस्थानां तु कारयेदिति गाथार्थः । २१२॥
"Aho Shrut.Gyanam"

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72