Book Title: Gathasahastri
Author(s): Samaysundar,
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai
View full book text
________________
गाथासहस्त्री।
भारण्डपक्षिणः ख्यातात्रिपदा मर्त्यभाषिणः । द्विजीया द्विमुखा एकोदरा भिन्नफलैषिणः ॥ ५७१ ।।
[प्रतिक्रमणवृत्तौ तपाकृतायाम् ॥] बायरपुढवी १ जल २ जलण ३ पवण ४ पत्तेअवण ५ निगोएसु ६ । सत्तरिकोडाकोडी, अयराणं नाह ! भमिओहं ॥ ५७२ ॥
[कायस्थितिसूत्रे ९ गाथा ॥] पुढवी १ आउ २ वणस्सई ३, गब्भयपजत्तसंखजीवेसु ५ । सग्गचुआणं वासो, सेसा पडिसेहिआ ठाणा ॥ ५७३ ॥ मद्य १ मांसाशनं २ रात्रिभोजनं ३ कन्दभक्षणम् ४ । ये कुर्वन्ति वृथा तेषां, तीर्थयात्रा १ जप २ स्तपः ३ ॥ ५७४ ॥ वृथा चैकादशी प्रोक्ता ४, वृथा जागरणं हरेः ५। वृथा च पौष्करी यात्रा ६, वृथा चान्द्रायणं तपः ७ ॥ ५७५ ॥ यस्मिन् गेहे सदाऽत्यर्थ, मूलकः पच्यते जनैः । श्मशानतुल्यं तद्वेश्म, पितृभिः परिवर्जितम् ॥ ५७६ ।। मूलकेन समं चानं, यस्तु मुझेन्नरोऽधमः। तस्य शुद्धिर्न विद्येत, चान्द्रायणशतैरपि ।। ५७७ ।। मूलकं भक्षयित्वा यः, कुरुते विष्णुपूजनम् । व्यर्थ तद्वैष्णवं पुण्यं, कृतं वर्षशतेन च ॥ ५७८ ॥
[इति श्रीमहाभारते शान्तिपर्वणि मूलकपरिहारः॥1 यस्तु वृन्ताक १ कालिङ्ग २ मुलका ३ ऽलाबु ४ भक्षकः । अन्तकाले स मुढात्मा. न स्मरिष्यति मां प्रति ॥ ५७९ ॥ भुक्तं हालाहलं तेन, कृतं वाऽभक्ष्यभक्षणम् । येन व्यादनं देवि !, कृतं मूलकभक्षणम् ।। ५८०॥ नीली च वापयेद्यस्तु, मूलकं यस्तु भक्षयेत् । वृन्ताकभक्षणादेव, नरो यात्येव
१८१ ॥ पलाण्डु १ गृजनं २ चैव, रसोनं ३ सूरणं ४ तथा। मत्स्यं मांसं च नानीयात् , मूलकं तु विशेषतः ॥ ५८२ ॥
[मानवीस्मृतौ वृन्ताकादीनां परिहारः ॥] मृते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तंगते दिवानाथे, भोजनं क्रियते कथम् ॥ ५८३ ॥ उदकमपि न पातव्यं, रात्रावत्र युधिष्ठिर ! । तपस्विना विशेषेण, गृहिणा तु विवेकिना ।। ५८४ ॥
[पमपुराणे ॥] रात्रौ ये सर्वदाऽऽहार, वर्जयन्ति सुमेधसः । पक्षोपवासस्य फलं, ध्रुवं मासेन जायते ।। ५८५ ।। चतुर्मासे तु संप्राप्ते, रात्रिभोज्यं करोति यः । तस्य शुद्धिन विधेत, चान्द्रायणशतैरपि ॥५८६॥ स्नानाचं वर्यते यत्र, तथा वह्वेश्च तर्पणम् । देवपूजा तपो दानं, भुज्यते तत्र किं निशि ॥ ५८७ ॥
[इति महाभारते रात्रिभोजनपरिहारः॥] सप्तग्रामेषु यत्पापं अग्निना भस्मसात्कृते । तस्य तद्भवति पापं, मधुविन्दुप्रभक्षणे ॥ ५८८ ॥ यो ददाति मधु श्राद्धो, मोहितो धर्म लिप्सया । स याति नरकं घोरं, खादकैः सह लम्पटैः ॥ ५८९ ॥ मेदमूत्रपुरीपाद्यै, रसाद्यैर्वर्जितं मधु । छर्दिलालामुखस्रावै,-रभक्ष्यं ब्राह्मणैर्मधु ॥ ५९० ॥
इति महाभारते मधुभक्षणपरिहारः॥] नवसमरहिं जहन्नं तु, मुहुत्तं एगएगबुडीए । एगसमएण ऊणं, उकिटं जाव दोघडिअं ॥ ५९१ ॥
[विचारसत्तरीप्रन्थस्यावचूर्णी श्रीमहेन्द्रसूरिविरचितायाम् ॥] __ रत्तो १ दुट्ठो २ मूढो ३, पुचि बुग्गाहिओ अ चत्तारि । एए धम्मा अणरिहा, अरिहो पुण होइ मज्झत्थो ॥ ५९२ ॥
__ [तपारत्नशेखरस्कृितश्राद्धविधिप्रकरणे ॥] [ददस्वान्नं नराधिप-आशु प्रीतिकरं लोके किं दत्तेनापरेण ते॥] अन्नं वै प्राणिनां प्राणाः, अनमोजः सुखौषधे । तस्मादन्नसमं दानं, न भूतं न भविष्यति ॥५९३॥ मिध्यादृष्टिसहस्रेषु, बरमेको हणुव्रती ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72