Book Title: Gathasahastri
Author(s): Samaysundar, 
Publisher: Zaveri Mulchand Hirachad Bhagat Mumbai

View full book text
Previous | Next

Page 67
________________ गाथासहस्त्री। धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः। कालोऽयं जलदागमस्तदपि यः कामं जिगायाऽऽदरात् , तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ ७६४ ॥ हस्तात्प्रस्खलितं १ क्षितौ निपतितं २ लमं तथा पादयोः ३, यन्मूर्होर्द्धगतं ४ धृतं कुवसने ५ नाभेरधो यद्धृतम् । स्पृष्टं दुष्टजनै ७ धनैरभिइतं ८ यहषितं कीटकै, स्त्याज्यं तत्कुसुमं १ फलं २ दलमपि ३ श्राद्धैर्जिनार्याक्षणे ॥ ७६५ ॥ आदौ मजनचारु चीरतिलकं नेत्राञ्जनं कुण्डलं, नासामौक्तिकपुष्पहारकुण्डलं झङ्कारकं नूपुरम् । अङ्गे चन्दनलेपकचकमणी क्षुद्रावली घण्टिका, ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ॥ ७६६ ॥ स्नानं १ कुन्तलधूपनं च २ कबरीगुम्फः ३ करे वीटकं ४, चीरं ५ चन्दनलेप ६ कञ्चक ७ रदोद्योता ८ अना ९ ऽलक्तकम् १० । ताम्बूलं ११ तिलकं १२ च पत्रलतिका १३ कर्पूरपूर १४ स्तथा, पुष्पाणां मुकुटो १५ नखेषु रचना १६ शृङ्गारकाः षोडश ।। ७६७ ॥ प्रकारान्तरम् - क्षौरं १ मजन २ वन ३ शीर्षतिलकं ४ गात्रे विलेपार्चनं ५, कर्णे कुण्डल ६ मुद्रिका च ७ मुकुटं ८ पादौ च चमोर्जितौ ९ । हस्ते खड्ग १० पटाम्बरं ११ कटिछुरी १२ विद्याविनोदो १३ मुखे, ताम्बूलं १४ करकङ्कणं १५ चतुरता १६ शृङ्गारकाः षोडश ॥ ७६८ ॥ कन्यागोशसभेरीदधिफलकुसुमं पावको दीप्यमानो, नागेन्द्रोऽश्वो रथो वा नृपतिरभिमुखः पूर्णकुम्भो द्विजो वा। वेश्या खी सान्द्रमांसं जलचरयुगलं सिद्धमन्नं [यतिर्वा ] शतायुः, प्रस्थाने प्रस्थितानां यदि भवति ध्रुवं सिद्धिरेवं नराणाम् ॥ ७६९ ।। भेरीमृदङ्गमृगमर्दलशङ्खवीणा, वेदध्वनिः सधवमङ्गलगीतघोषा । पुत्रान्विता च युवतिः सुरभिः सवत्सा, धौताम्बरश्च रजकोऽभिमुखः प्रशस्तः ।। ७७० ।। वार्ताकृत् १ पल्लवग्राही २, निद्रालु ३ रतिचञ्चलः ४ । अनुत्थितसमुत्थायी ५, व्याख्यानाऽनह पञ्चकम् ॥ ७७१ ॥ न चौरग्रामं न च राजमारं, प्रयाणकाले न च भारवाह्यम् । एतद्धनं सर्वधनप्रधानं, विद्याधनं सत्पुरुषा बहन्ति ।। ७७२ ॥ अमश्रमक्षरं नास्ति, नास्ति मूलमनौषधम् । अनाथा [ निर्धना] पृथिवी नास्ति, आनायाः खलु दुर्लभाः ॥ ७७३ ॥ असारस्य पदार्थस्य, प्रायेणाऽऽडम्बरो महान् । नहि स्वर्णे ध्वनिस्ताहग, यादृक् कांस्ये निरीक्ष्यते ॥ ७७४ ॥ कार्याणि बहुमित्राणि, दुर्बलानि बलानि च । वने बद्धो महानागो, मूषकैः परिमोचितः ॥ ७७५ ॥ बहुभिर्न विरोद्धव्यं, दुर्जयो हि महाजनः । स्फुरन्तमपि नागेन्द्र, भक्षयन्ति पिपीलिकाः ॥ ७७६ ॥ सक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,-नागेन्द्रो निशिताकुशेन समदो दण्डेन गोगर्दभौ। व्याधिर्भेषजससन्हैश्च विविधैर्मअप्रयोगैर्विष, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ।। ७७७ ॥रे लोलोल्वणकल्लोल !, धिक् ते सागर ! गर्जितम् । यस तीरे तृषाकान्तः, पान्थः पृच्छति कूपिकाम् ॥ ७७८ ॥ वाचको लभते लक्षं, लेख: कोटिं विशेषयेत् । दृष्टे कोटिशतं मूल्यं, निर्मूल्यः स्वेष्टसङ्गमः ॥ ७७९ ।। सुअसायरो अपारो, आउं योवं जिया य दुम्मेहा । तं किंपि सिक्खियवं, जं कजकरं च थोवं च ॥ ७८० ॥ वासश्चर्मविभूषणं शवशिरो भस्माङ्गरागः सदा, गौरेकः स च सारेष्वकुशलः सम्पत्तिरेतादृशी । ईशं स्वं परिहत्य माति जलधि, रसाकर जालवी, कष्टं निर्धनकस्य जीवितमहो! दारैरपि त्वज्यते ॥ ७८१ ॥ धर्मो यत्र धनं तत्र, समराशिप्तया स्थिरम् । यत्राऽधर्मो न तत्रेदं, न च पश्चमयोगतः॥ ७८२ ॥ पुण्यादेव समीहितार्थघटना नो पौरुषात्प्राणिनां, यद्भानोभ्रंमतोऽपि नाऽम्बरतले स्यादष्टमः सैन्धवः । स्वस्थानात्पदमात्रमप्यचलतो विन्ध्यस्य चाऽनेकधा, जायन्ते मधुपालिपालितयशःश्रीलम्भिनः कुम्भिन: ॥ ७८३ ।। अस्माकं बदरी चके, युष्माकं बदरी गृहे। बादरायणसंयोगाद् , यूयं यूयं वयं वयम् ॥ ८४ ॥ पतिः १ श्वशुरता २ ज्येष्ठे, पतिर्देवरताऽनुजे । पाण्डवैः सह पाञ्चाल्या,-त्रितयं "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72