Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 51
________________ 'भेदप्रधानस्य भावस्य निराकरणम् ] द्वादशारं नयचक्रम् ७४० पचारिकत्वं वक्रतायाः, नाङ्गुलेः, न हि वक्रत्वमङ्गुलिर्भवति अनुत्पन्नत्वात् खपुष्पवत् । भेदत्वाच्च रूपवत् । अत उक्तन्यायात् त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव द्रव्याश्रितत्वाद् भेदानाम् । पर्यायप्रवृत्तेः सर्वथैव भवनविध्यनुपपत्तिः। विशेषस्वरूपप्रत्यवेक्षायां भवनं स्वेनैव महिम्ना पृथग वर्तते। तद् यदि पूर्व 5 भवनमस्वतन्त्रं पृथक् चावृत्ति ततो निर्मूलत्वादसन् घटः खपुष्पवत् । नापि स स्वयमेव भावः, विशेषप्रधानपक्षहानेः। नाप्यस्य भावः, ततश्च असत्त्वाविशेषात् रित्यादि, यथा 'अंगुलिर्वका भवति' इत्युक्तेऽङ्गुलेरवस्था वक्रताऽङ्गुलेः सामान्यस्य भेदोवस्थामात्रमित्यौपचारिकत्वं वक्रतायाः, नाङ्गुलेः। यस्माद् न वक्रत्वमङ्गुलिर्भवति, वक्रत्वस्याऽनवस्थात्वादङ्गुलेः। अङ्गुलिरेव वक्रीभवति, न वक्रतैवाङ्गुलीभवति । कस्मात् पुनर्न वक्रत्वमङ्गुलीभवति ? 10 उच्यते-अनुत्पन्नत्वात् खपुष्पवत् । एवं तावदयुगपद्भाविकालभिन्नाभिमतपर्यायेषु द्रव्यमानत्वमुक्तम् । युगपद्भाविदेशभिन्नाभिमतपर्यायेष्वपि भेदत्वाच्च रूपवत् 'तदवस्थामात्रम्' इति वर्तते । यथा घट एव चक्षुरादिग्रहणापदेशविशिष्टत्वात् 'रूपं रसो गन्धः' इत्यादिभेदेनोच्यतेऽङ्गुलिा, विज्ञानमात्रस्य तत्र भेदत्वाद् वस्तुनो घटस्याभिन्नत्वात्, एवं पृथिव्यादिसामान्यभेदा घटादयोऽश्म-सिकतादय[श्च] विज्ञानमात्रेणेति । 15 __ किञ्चान्यत्, अत उक्तन्यायादित्यादि । अतीतविध्यादिद्रव्याथिकनयेषु एक-सर्वगत-नित्यकारणवस्तुमात्रविजृम्भितं स्तिमितसरस्तरङ्गादिव[त्] त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव, द्रव्याश्रितत्वाद् भेदानामवस्थादिसंज्ञानां पुरुषादिवादेषु प्रतिपादितत्वात् द्रव्यस्य पर्यायानाश्रितत्वाच्च । पर्यायप्रवृत्तेरित्यादि, इति सर्वथैव भवनविध्यनुपपत्तिरेवं पूर्वातीतद्रव्यनयदर्शनेन । विशेषस्वरूपेत्यादि । तस्यापि च विशेषस्य स्वरूपं प्रत्यपेक्ष्यमाणमन्वयसामर्थ्यादृते न लभ्यते, 20 तद्यथा-पूरयति पालयति कार्यस्यात्मनोऽवस्थादेः स्वरूपमिति कारणं भवनमन्वयः स्वेनैव महिम्ना ४७८-२ पृथग् वर्तते भेदादृतेऽपि यथोपवर्णितमनेकधाऽतीतनयेषु । तद् यदि पूर्वं भवनमस्वतन्त्रं "पृथक चावृत्ति यथा त्वयेष्टं स्यात् ततः किम् ? ततो निर्मूलत्वादित्यादि, निर्मूलत्वादसन् घटः खपुष्पवत । स्यान्मतम्-किं घटस्य मूलेन भवनेन ? किं ने स स्वयमेव भवति ? इति, एतच्च नापि स घट: स्वयमेव भावः, कस्मात् ? विशेषप्रधानपक्षहानेः। यदि विशेष एव भावस्ततो घट एव विशेषः, स 25 एव भावो भवनम्, तेन भूयतेऽन्वयेन भावेनेत्यतस्तथाभावत्वाद् घटस्यापि भावमात्रं सामान्यमर्थं (र्थः?) १ 'अगुलिवक्रीभवति' इत्यपि पाठोऽत्र स्यात्, दृश्यतां पं० १०॥ २ भेदवस्था प्र० । 'तदवस्था" इत्यपि पाठोऽत्र सम्भवेत् दृश्यतां पं० १२ ॥ ३ भवतीति भा० ॥ ४ त्वयुक्तम् प्र० ।। ५ दृश्यतां पं० ८, पृ० ७३९ पं० २३ ।। ६ (पर्यायाप्रवृत्तेः ? ? ) ।। ७ `त्यादिः । अथ सर्वथैव भा० ॥ ८ (प्रत्यवेक्ष्यमाण° ? ) ॥ ९ लभ्येतो भा० । लभ्यते य० ॥ १० पृथक्त्वावृत्ति यथा त्वयेष्टं भा०। पृथक्त्वावृत्ति (त्ते?)र्यथात्वयवेष्टं य०॥ ११ त्वादि निर्मूल य० ॥ १२ न स्वयमेव य० ।। १३ सामान्यामर्थ भा० । सामान्यमर्थ य० । 'सामान्यमेवं' इत्यपि पाठोऽत्र स्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252