Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 144
________________ ८३३ न्यायागमानुसारिणीवृत्यलङ्कृतम् [द्वादशे नियमनियमारे नैव दीर्घम् ...... ह्रस्वत्ववत् । तत्प्रत्ययोऽपि न ..... ह्रस्वप्रत्ययवत् । एवं ह्रस्वत्वेऽपि । उभयोभयपक्षस्तु प्रत्येकाभिहितदोषैनं विमुच्यते प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेविप्रतिषेधाच्च । यद्यहेतुतः खपुष्पमपि स्यात् । एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति । न घटे घटत्वं परायत्तत्वाद् घटत्वस्य । 5 यदि हि स्वविषयमेवैतत् स्याद् घटो नाघटोऽपि स्यात् । भवति वितरेतरः। तस्य चाघटत्वेऽन्येऽपि घटा अघटा एवेति घटाभावः। तदभावेऽघटाभावः, घटापेक्षत्वादघटत्वस्य । ५३५-१ एव प्रसक्तः। अत्रानिष्टापादनसाधनम्-नैव दीर्घमित्यादि गतार्थं यावद् ह्रस्वत्ववदिति। तथा तत्प्रत्ययोऽपि नेति गतार्थं यावद् ह्रस्वप्रत्ययवदिति । एवं ह्रस्वत्वेऽपीत्यतिदेशः । यदि ह्रस्वे ह्रस्वत्वम् इत्युपक्रम्य दीर्घशब्दस्थाने ह्रस्वशब्दं कृत्वा 10 स एव ग्रन्थो वाच्यो यावदयमवधिरिति । उभयोभयपक्षस्तु 'ह्रस्वमपि दीर्घ ह्रस्वं च, दीर्घमपि दीर्घ ह्रस्वं च' इत्ययमपि उभयोभयपक्षः प्रत्येकमभिहितैर्दोषेर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः पृथक्सिद्धिमूलत्वादपेक्षायाः। किञ्चान्यत्, विप्रतिषेधाच्च ह्रस्वत्व-दीर्घत्वयोविरोधादप्रवृत्तिरित्युक्तत्वात् । एवं तावन्न स्वतो न परतो नोभयतश्च ह्रस्व-दीर्घ सिध्यत इति । स्यान्मतम्-अहेतुतः सिध्यत इति । अत्रोच्यते--यद्यहेतुतः खपुष्पमपि स्यात्, अहेतुतश्च न 15 सिध्यति दीर्घत्वम्, अहेतुकत्वात् खपुष्पवत्। यदि सिध्येत् खपुष्पमपि सिध्येत्, अहेतुकत्वात्, दीर्घत्ववत् । स्यान्मतम्-आपेक्षिकेषु ह्रस्व-दीर्घादिषु स्यादयं न्यायः, न तु घटादिष्वपि । नैवं मन्तव्यम्, यस्मात्, एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति । तद् व्याचष्टे-न घटे घटत्वं परायत्त त्वाद् घटत्वस्येत्यादि यो दीर्घत्वप्रतिषेधे न्यायः स एवात्रापि दीर्घस्थाने घटं कृत्वा ह्रस्वस्थाने ५३५-२ पटाद्यघटं घटान्तरं च कृत्वा। घट एवाघटो दृष्ट इतरस्य घटस्येतरघटत्वाभावात् देश-कालाकारादि20 भेदाच्च परस्परतः । तस्मात् परायत्तं घटान्तरे पटादौ चायत्तम् । यदि हि स्वविषयमेवैतत स्यात घटोनाघटोऽपि स्यात। कथं पुनरघटोऽपि भवति? इत्यत आह-भवंति त्वितरेतरः । तस्य चाघटत्वे एवं तस्य घटस्यैवाघटत्वे यथाऽसावघटस्तथान्येऽपि घटा अघटा एवेति घटाभावः। पटादयस्त्वघटा एव सिद्धाः । तस्य घटस्याभावेऽघटाभावः, कस्मात् ? घटापेक्षत्वादघटत्वस्य, सोऽप्येवमघटो न भवतीति, अघट: तस्मादन्यो घटः पटो वा, एतद्घटत्वा १ प्रसक्तमात्रा प्र०॥॥२ ह्रस्वत्वेत्यतिदेशः य० । दृश्यतां पृ० ८३१ पं० २१, पृ० ८३५ पं० १३।। ३ तुलना पृ० ८३० पं० १॥ ४ तुलना-पृ० ८३५ पं० ७॥ ५ तुलना-पृ० ८३५ पं० ८॥ ६ ष्वति भा० ।। ७ पृ० ८३० पं० १॥ ८ पृ० ८३० पं०१॥ ९ न घटों भा०॥ १० भवत्वितरें य० ॥ ११ तुलना-पृ० ८३० पं० २॥ १२ घटस्य भा०। १३ भावोऽघटाय० ॥ भावो घटा भा०॥ १४ ऽस्माद भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252