Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 227
________________ प्रबन्धकोशे मल्लवादिप्रबन्धः वञ्चयित्वा कार्पटिक रङ्कः सोऽभून्महाधनः । तत्पुत्र्या राजपुत्र्याश्च सख्यमासीत्परस्परम् ॥६१॥ हैमी कङ्कतिकामेकां दिव्यरत्नविभूषिताम् । रङ्कपुत्रीकरे दृष्टा याचते स्म नृपात्मजा ।।६२।। तां न दत्ते पुना रङ्को राजा तं याचते बलात् । तेनैव मत्सरेणासौ म्लेच्छसैन्यमुपानयत् ॥६३॥ भग्ना पूर्वलभी तेन सञ्जातमसमञ्जसम् । शिलादित्यः क्षयं नीतो वणिजा स्फीतऋद्धिना ॥६४।। ततोऽथाकृष्य वणिजा प्रक्षिप्ताश्च रणे शकाः। तृष्णया ते स्वयं ममुहतो त्याधिर्महानयम् ॥६५॥ विक्रमादित्यभूपालात्पञ्चर्षित्रिक (३७५) वत्सरे । जातोऽयं वलभीभङ्गो ज्ञानिनः प्रथमं ययुः ।।६६।। स्ववर्त्मना गतान्यहबिम्बानि विषयान्तरम् । देवताधिष्ठितानां हि चेष्टा सम्भविनी तथा ॥६७॥ एतच्च प्रथमं ज्ञात्वा मल्लवादी महामुनिः । सहितः परिवारेण पञ्चासरपुरीमगात् ॥६८॥ नागेन्द्रगच्छसत्केषु धर्मस्थानेष्वभूत्प्रभुः । श्रीस्तम्भनकतीर्थेऽपि सङ्घस्तस्येशतामधात् ॥६९।। श्रीमल्लवादिचरितं जिनशासनीयतेजःसमुन्नतिपवित्रमिदं निशम्य । भव्याः! कवित्ववचनादिविचित्रलब्धिव्रातः प्रभावयत शासनमार्हतं भोः ! ॥७॥ ॥ इति [प्रबन्धकोशे ] श्रीमल्लवादिचरित्रम् ॥ ७ ॥ [अथ प्रबन्धचिन्तामणौ मल्लवादिप्रबन्धः] अथ खेडामहास्थाने देवादित्यविप्रपुत्री बालकालविधवा अतिरूपपात्रं सुभगाभिधाना प्रातः सूर्य प्रत्यर्घाञ्जलिं क्षिपन्ती अज्ञाततद्योगाद्भोगादाधानमधात् । अथ कथंचित्तदसमञ्जसं पितृभ्यामववध्य मन्दाक्षमन्दाक्षरमुद्रया असमञ्जसमिति तां प्रति किञ्चिद् व्याहृत्य सा स्वपुरुषर्वलभ्या नगर्या अभ्यासे मुमुचे । तया तत्र प्रसूतः सूनुः क्रमेण वर्द्धमानः सवयोभिः शिशुभिः निःपितृक इति निर्भय॑मानो मातुः समीपे पितरं पृच्छन् तया न जाने इत्यभिहितः । तज्जन्मवैराग्यात्मुमूर्षो: प्रत्यक्षीभूय सविता सान्त्वनापूर्वं करे कर्करं समर्प्य, भवन्मातुः सम्पर्ककारिणमर्कं स्वं ज्ञापयन् ‘भवत: पराभवकारिणं प्रत्ययं क्षिप्तः शिलारूपो भविष्यती'त्यादिश्य निरपराधस्य कस्यापि क्षिप्तो यदि तवैवाऽनर्थनिबन्धनं ज्ञापयंस्तिरोधत्त । अत्थेत्थमभिभवकारिणः कांश्चिद् व्यापादयन् शिलादित्य इति सान्वयनाम्ना प्रतीतः । तन्नगरराज्ञा तत्परीक्षायै तथाकृते तमिलापालं शिलया तया कालधर्ममवाप्य स्वयमेव भूपतिरभूत् । सदा सवितृप्रसादीकृते हयेऽधिरूढो नभश्चर इव स्वैरविहारी पराक्रमाक्रान्तदिग्वलयश्चिरं राज्यं कुर्वन् जैनमुनिसंसर्गात्प्रादुर्भूतप्रभूतसम्यक्त्वरत्नः श्रीशत्रुञ्जयस्य महातीर्थस्यामानमहिमानमवगम्य जीर्णोद्धारं चकार । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252