Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 197
________________ शास्त्ररचनाप्रयोजनम् ] द्वादशारं नयचक्रम् [ ८८६ सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति - नयावतारादिषु नयशास्त्रेषु तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने सत्यपि दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्बलोत्साहसंवेगश्रवणधारणादिशक्तीन् भव्यजनाननुग्रहीतुं संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्र श्रीमच्छ्वेतपटमल्लवादिक्षमाश्रमणेन विहितं भरतचक्रवर्तिना चक्ररत्नमिव जैनानां वादिचक्रवतित्वविधये । तदेतदेवं द्वादशारनयचक्रं सिद्धम् । इति नयचक्रतुम्बम् Jain Education International अधुना तु शास्त्रप्रयोजनमुच्यते - सत्स्वपि पूर्वाचार्यविरचितेषु सम्मति - नयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीतनैगमादिप्रत्येकशतसंख्यप्रभेदात्मक सप्तनयशतारनयचक्राध्ययनानुसारिषु ५७१-२ तस्मिंश्चार्षे सप्तशतारनयचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धे रणं दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्ब्रलोत्साह-श्रद्धा-संवेग श्रवर्णं धारणादिशक्तीनां भव्यसत्त्वानां श्रवणमेव तावद् दुर्लभम् श्रुत्वापि तत्त्वावबोधः, बुद्ध्वा तत्त्वमन्य (प्य ? ) स्य व्यवहारकाले परप्रत्यायनं प्रत्यादरो 10 दुर्लभः, सत्यपि आदरे ग्रन्थार्थसंस्मरणं तदुद्ग्राहणम् उग्राहितार्थप्रतिपादनं चात्यन्तखेदायेति मत्वा तत्खेदखिन्नान् विस्तरग्रन्थभीरून् संक्षेपाभिवाञ्छिनः शिक्षकजना [न] नुग्रहीतुं कथं नाम अल्पीयसा कालेन नयचक्रमधीयेरन्निमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमच्छ्वेतपट मल्लवादिक्षमाश्रमणेन विहितं स्वनीति-स्वपराक्रमविजिताशेषप्रवादिविजिगीषुचक्रविजयिना सकलभरतविजयवासिनृपतिविजिगीषुचक्रविजयिना भरतचक्रवर्तिना देवतापरिगृहीता - 15 प्रतिहतचक्ररत्नेन स्वपुत्त्रपरम्परानुयायिजगद्वयापिविपुलविपुलविमलयशसा चक्ररत्नमिव तदिदं नयचत्ररत्नं चक्रवर्तिनामिव चक्ररत्नं पुत्र-पौत्रादिनृपतीनां विहितं कृतम् । किमर्थमिति चेत्, चक्रवर्तिनामिव चक्रवतत्वविधये वादिनां जनानां जिनशासनप्रभावनाभ्युद्यतानां वादिचक्रaftaar 'वादिचक्रवर्तित्वं विधेयात्' इत्येवमर्थम् इत्येतस्य नयचत्रशास्त्रस्य विधाने प्रयोजनमभिहितम् । तदेतदेवं द्वादशारनयचक्रं सिद्धं प्रतिष्ठितमव्याहतं चक्रवर्तिचक्ररत्नवदेव अन्या - 20 विप्रधृष्याचिन्त्यशक्तिपराभिभवनप्रभुशक्तियुक्तं च सिद्धम् । सिद्धनामग्रहणं च मङ्गलं कल्याणं शिष्य १ द्वारणं प्र० ॥ २णसाधा य० ॥ ३ श्रवणेन भा० ॥ ४ इत्येतमर्थं प्र० ॥ ५ हितं प्र० ॥ 5 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252