Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 222
________________ प्रभावकचरिते मल्लवादिरिचरित्रम् मल्लाचार्ये दधौ पुष्पवृष्टि श्रीशासनामरी । महोत्सवेन भूपाल: स्वाश्रये तं न्यवेशयत् ॥५९॥ बुद्धानन्दपरीवारमपभ्राजनया ततः । राजा निर्वासयन्नत्र वारितोऽर्थनपूर्वकम् ॥६०॥ बिरुदं तत्र 'वादी'ति ददौ भूपो मुनिप्रभोः । मल्लवादी ततो जात: सूरिभूरिकलानिधिः ॥६१॥ बुद्धानन्दो निरानन्दः शुचा निष्प्रतिभो भृशम् । रात्रौ प्रदीपमादाय प्रारेभे लिखितुं ततः ॥६२॥ तत्रापि विस्मति याते पक्षहेतुकदम्बके । अनुत्तरो भयाल्लज्जावंशसात् स्फुटिते हृदि ॥६३।। मृत्यु प्राप खटीहस्तो राज्ञा' प्रातwलोक्यत'। मल्लेन च ततोऽशोचि वाद्यसौ हा दिवं गतः ॥६४॥ कस्य प्राणादसौ प्रज्ञा प्रगल्भां' स्वां प्रबुद्धवान्। अवज्ञाता शिशुत्वान् नः स्वयमीदृक् च कातरः॥६५॥ वलभ्याः श्रीजिनानन्दः प्रभुरानायितस्तदा । संघमभ्यर्थ्य पूज्यः स्वः सूरिणा मल्लवादिना ॥६६।। माता दुर्लभदेवीति तुष्टा चारित्रधारिणी। बन्धुना गुरुणाऽभाणि त्वं स्थिता पुत्रिणीधुरि ॥६७।। गुरुणा गच्छभारश्च योग्ये शिष्ये निवेशितः । मल्लवादिप्रभौ को हि स्वौचित्यं प्रविलङ्येत् ॥६८॥ नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा। व्याख्यातः परवादीभकुम्भभेदनकेसरी ॥६९।। श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः ॥७०॥ तीर्थं प्रभाव्य वादीन्द्रान् शिष्यान् निष्पाद्य चामलान् । गुरु-शिष्यौ गुरुप्रेमबन्धेनेवे यतुर्दिवम् ॥७१॥ बुद्धानन्दस्तदा मृत्वा विपक्षव्यन्तरोऽजनि । जिनशासनविद्वेषिप्रान्तकालमतेरसौ ॥७२॥ तेन प्राग्वैरतस्तस्य ग्रन्थद्वयमधिष्ठितम् । विद्यते पुस्तकस्थं तत् वाचितुं स न यच्छति ॥७३।। श्रीमल्लवादिप्रभुवृत्तमेतन् मञ्चेतनावल्लिनवाम्बुदाभम् ।। व्याख्यान्तु शृण्वन्तु कविप्रधानाः प्रसन्नदृष्ट्या च विलोकयन्तु ॥७॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौश्रीमल्लवाद्यद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितःशृङ्गोनवानोऽभवत्॥७५॥ [अत्र C सञक आदर्श निम्नगतमेकमधिकं पद्यं लिखितमुपलभ्यते-] श्रीनागेन्द्रकुलैकमस्तकमणि[:] प्रामाणिकग्रामणीरासीदप्रतिमल्ल एव भुवने श्रीमल्लवादी गुरुः प्रोद्यत्प्रातिभवैभवोद्भवमुदा श्रीशारदा सूनवे यस्मै तं निजहस्तपुस्तकमदाजैत्रं त्रिलोक्या अपि ॥ -ऋषिमण्डलात् ॥ इति मल्लवादिप्रबन्धः ॥ ॥ ग्रन्थ ७७ । उभयम् २१२० ॥ १C राजा। २ A विलोकत; C व्यलोकत । ३C प्रगल्भं । ४ N निबन्धेनेयतुः । ५ A ऽथ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252