________________
प्रभावकचरिते मल्लवादिरिचरित्रम् मल्लाचार्ये दधौ पुष्पवृष्टि श्रीशासनामरी । महोत्सवेन भूपाल: स्वाश्रये तं न्यवेशयत् ॥५९॥ बुद्धानन्दपरीवारमपभ्राजनया ततः । राजा निर्वासयन्नत्र वारितोऽर्थनपूर्वकम् ॥६०॥ बिरुदं तत्र 'वादी'ति ददौ भूपो मुनिप्रभोः । मल्लवादी ततो जात: सूरिभूरिकलानिधिः ॥६१॥ बुद्धानन्दो निरानन्दः शुचा निष्प्रतिभो भृशम् । रात्रौ प्रदीपमादाय प्रारेभे लिखितुं ततः ॥६२॥ तत्रापि विस्मति याते पक्षहेतुकदम्बके । अनुत्तरो भयाल्लज्जावंशसात् स्फुटिते हृदि ॥६३।। मृत्यु प्राप खटीहस्तो राज्ञा' प्रातwलोक्यत'। मल्लेन च ततोऽशोचि वाद्यसौ हा दिवं गतः ॥६४॥ कस्य प्राणादसौ प्रज्ञा प्रगल्भां' स्वां प्रबुद्धवान्। अवज्ञाता शिशुत्वान् नः स्वयमीदृक् च कातरः॥६५॥ वलभ्याः श्रीजिनानन्दः प्रभुरानायितस्तदा । संघमभ्यर्थ्य पूज्यः स्वः सूरिणा मल्लवादिना ॥६६।। माता दुर्लभदेवीति तुष्टा चारित्रधारिणी। बन्धुना गुरुणाऽभाणि त्वं स्थिता पुत्रिणीधुरि ॥६७।। गुरुणा गच्छभारश्च योग्ये शिष्ये निवेशितः । मल्लवादिप्रभौ को हि स्वौचित्यं प्रविलङ्येत् ॥६८॥ नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा। व्याख्यातः परवादीभकुम्भभेदनकेसरी ॥६९।। श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः ॥७०॥ तीर्थं प्रभाव्य वादीन्द्रान् शिष्यान् निष्पाद्य चामलान् । गुरु-शिष्यौ गुरुप्रेमबन्धेनेवे यतुर्दिवम् ॥७१॥ बुद्धानन्दस्तदा मृत्वा विपक्षव्यन्तरोऽजनि । जिनशासनविद्वेषिप्रान्तकालमतेरसौ ॥७२॥ तेन प्राग्वैरतस्तस्य ग्रन्थद्वयमधिष्ठितम् । विद्यते पुस्तकस्थं तत् वाचितुं स न यच्छति ॥७३।। श्रीमल्लवादिप्रभुवृत्तमेतन् मञ्चेतनावल्लिनवाम्बुदाभम् ।।
व्याख्यान्तु शृण्वन्तु कविप्रधानाः प्रसन्नदृष्ट्या च विलोकयन्तु ॥७॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौश्रीमल्लवाद्यद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितःशृङ्गोनवानोऽभवत्॥७५॥
[अत्र C सञक आदर्श निम्नगतमेकमधिकं पद्यं लिखितमुपलभ्यते-] श्रीनागेन्द्रकुलैकमस्तकमणि[:] प्रामाणिकग्रामणीरासीदप्रतिमल्ल एव भुवने श्रीमल्लवादी गुरुः प्रोद्यत्प्रातिभवैभवोद्भवमुदा श्रीशारदा सूनवे यस्मै तं निजहस्तपुस्तकमदाजैत्रं त्रिलोक्या अपि ॥
-ऋषिमण्डलात् ॥ इति मल्लवादिप्रबन्धः ॥
॥ ग्रन्थ ७७ । उभयम् २१२० ॥
१C राजा। २ A विलोकत; C व्यलोकत । ३C प्रगल्भं । ४ N निबन्धेनेयतुः । ५ A ऽथ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org