________________
९१०
प्रभावकचरिते मल्लवादिसूरिचरितम् एवमप्यर्दित: संघो वात्सल्याज्जननीयुतः। ईदृक् श्रुतस्य पात्रं हि दुःप्राणं मा विशीर्यताम् ॥२७|| विकृति ग्राहितस्तेन चतुर्मासिकपारणे । साधवस्तत्र गत्वाऽस्य प्रायच्छन् भोजनं मुनेः ॥२८॥ श्रुतदेवतया संघसमाराधितया ततः । ऊचेऽन्यदा' परीक्षार्थं 'के मिष्टा' इति भारती ॥२९॥ 'वल्ला' इत्युत्तरं प्रादान मल्लः फल्लतपोनिधिः । षण्मासान्ते पुनः प्राह वाचं 'केनेति' तत्पुरः ॥३०॥ उक्त 'गुड-घृतेनेति' धारणातस्तुतोष सा । वरं वृण्विति च प्राह तेनोक्तं यच्छ पुस्तकम ॥३२॥ श्रुताधिष्ठायिनी प्रोचेऽवहितो मद्वचः शृणु । ग्रन्थेऽत्र प्रकटे कुयुद्धेषिदेवा उपद्रवम् ॥३२॥ श्लोकेनैकेन शास्त्रस्य सर्वमर्थं ग्रहीष्यसि । इत्युक्त्वा सा तिरोधत्त गच्छं मल्लश्च सङ्गतः ॥३३॥ नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्ग्रन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥३४॥
शास्त्रस्यास्य प्रवेशं च संघश्चके महोत्सवात् । हस्तिस्कन्धाधिरूढस्य प्रौढस्येव महीशितुः ॥३५॥ ६२. अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् । सूरित्वे स्थापितो मल्लः श्राद्धरभ्यर्थ्य सद्गुरुम् ॥३६॥
तथा 'जितयशोनामा प्रमाणग्रन्थमादधे । अल्लभूप सभे वादिश्रीनन्दकगुरोगिरा ॥३७॥ शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे । न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् ॥३८॥ यक्षेण संहिता चक्रे निमित्ताष्टाङ्गबोधनी। सर्वान् प्रकाशयत्यर्थान् या दीपकलिका यथा ॥३९|| मल्लः समुल्लसन्मल्लीफुल्लवेल्लद्यशोनिधिः । शुश्राव स्थविराख्यानात् न्यक्कारं बौद्धतो गुरोः ॥४०॥ अप्रमाणैः प्रयाणैः स भृगुकच्छं समागमत् । संघः प्रभावनां चक्र प्रवेशादिमहोत्सवैः ॥४१॥ बुद्धानन्दस्ततो बौद्धानन्दमद्भतमाचरत् । श्वेताम्बरो मया वादे जिग्ये दर्प वहन्नमुम् ॥४२॥ यस्योन्नमत्यपि भ्रूवलेपभरभारिता। जगद्धृष्टं कृपापात्रं मन्यते स धरातलम् ॥४३।। जैन|नागतान् श्रुत्वा विशेषादुपसर्गकृत् । संघस्याथ महाकोशो विशां वृन्दैरवीवदत् ॥४४॥ पूर्वजः श्वेतभिक्षूणां वादमुद्राजयोद्धरः । स्याद्वादमुद्रया सम्यगजेयः परवादिभिः ॥४५॥ परं सोऽपि मयात्मीयसिद्धान्तः प्रकटीकृतैः।कलितश्चुलुके कुम्भोद्भवेनेव पयोनिधिः ॥ ४६।।-युग्मम् । किं करिष्यति बालोऽसावनालोकितकोविदः । गेहेनर्दी सारमेय इवासारपराक्रमः ॥४७॥ काचित्तस्यापि चेच्छक्तिस्ततो भूपसभापुरः । स्वं दर्शयतु यनैणं वृकवद् ग्रासमानये ॥४८॥ मल्लाचार्य इति श्रुत्वा लीलया सिंहवत् स्थिरः । गम्भीरगीर्भरं प्राह ध्वस्तगर्वो द्विषन्नृणाम् ॥४९॥ जैनो मुनिः शमी कश्चिदविवादावदातधीः । जितो जित इति स्वेच्छावादोऽयं किं घटापटुः ॥५०॥ अथवास्तु मुधा चित्तावलेपं शल्यवद् दृढम् । अलमुद्धर्तुमेतस्य सज्जोऽस्मि विलसज्जयः ॥५१॥ सज्जनो मे सुहृच्चापि ज्ञास्ये स्थास्यति चेत्पुरः । तिष्ठन् स्वकीयगेहान्तर्जनो भूपेऽपि कद्वदः॥५२॥ प्रत्यक्ष प्राश्निकानां तन्मध्ये भूपसभं भृशम् । अनूद्यतां यथा प्रज्ञाप्रामाण्यं लभ्यते ध्रुवम् ॥५३॥ इत्याकर्ण्य वचः स्मित्वा बुद्धानन्दोऽप्युवाच च। वावदूकः शिशुप्रायः कस्तेन सह संगरः ॥५४॥ अस्तु वासौ निराकृत्य एव मे द्विषदन्वयी । ऋणस्तोकमिवासाध्यः कालेनासौ हि दुर्जयः ॥५५॥ ततः क्रूरे मुहूर्ते च तौ वादि-प्रतिवादिनौ। संसद्याजग्मतुः सभ्याः पूर्ववादं लघोर्ददुः ॥५६।। मल्लाचार्यः स षण्मासी यावत् प्राज्ञार्यमावदत् । नयचक्रमहाग्रन्थाभिप्रायेणात्रुटद्वचाः ।।५७|| नावधारयितुं शक्तः सौगतोऽसौ गतो गृहम् । मल्लेनाप्रतिमल्लेन जितमित्यभवन् गिरः ॥५८॥ १ तदा । २ C° मास्यन्ते । ३ N जिनयशो' । ४ C अल्लूभूप° । ५ A गुरौ । ६ B N सुहृद्वापि । ७ A वावदूकशिशुप्रायः ।
For Private & Personal use only.
Jain Education International
www.jainelibrary.org