________________
९०९
१०. प्रभावकचरिते श्रीमल्लवादिसूरिचरितम् । ६१. संसारवाद्धिविस्तारानिस्तारयतु दुस्तरात् । श्रीमल्लवादिसूरिवों यानपात्रप्रभः प्रभुः ॥ १।।
गौः सत्तारघना यस्य पक्षाक्षीणलसद्भुवि । अवक्त्रा लक्षभेत्री च जीवामुक्ता सुपर्वभृत् ॥ २॥ जडानां निबिडाध्यायप्रवृत्तौ' वृत्तमद्भुतम् । प्रमाणाभ्यासतः ख्याते दृष्टान्तः किंचिदुच्यते ॥ ३ ॥ रेणुप्राकारतुङ्गत्वाद् रथेनागच्छतो रवेः । रथाङ्गमिव संलग्नं शकुनीतीर्थनाभिभृत् ॥ ४॥ हारनिकरैर्युक्तं वप्रनेमिविराजितम् । पुरं श्रीभृगुकच्छाख्यमस्ति स्वस्तिनिकेतनम् ॥ ५ ॥ चारुचारित्रपाथोधिशमकल्लोलकेलितः । सदानन्दो जिनानन्दः सूरिस्तत्राच्युतः श्रिया ॥ ६ ॥ अन्यदा धनदानाप्तिमत्तश्चित्ते छलं वहन् । चतुरङ्गसभावज्ञामज्ञातमदविभ्रमः ॥ ७ ॥ चैत्ययात्रासमायातं जिनानन्दमुनीश्वरम् ।।
जिग्ये वितंडया बुद्धया नन्दाख्यः सौगतो मनिः॥ ८॥-यग्मम । पराभवात् पुरं त्यक्त्वा जगाम वलभी प्रभुः । प्राकृतोऽपि जितोऽन्येन कस्तिष्ठेत् तत्पुरांतरा ॥९॥ तत्र दुर्लभदेवीति गुरोरस्ति सहोदरी। तस्याः पुत्रास्त्रयः सन्ति ज्येष्ठोऽजितयशोऽभिधः ॥१०॥ द्वितीयो यक्षनामाभून् मल्लनामा तृतीयकः । संसारासारता चैषां मातुलैः प्रतिपादिता ॥११॥ जनन्या सह ते सर्वे बुद्धा दीक्षामथादधुः । संप्राप्ते हि तरण्डे कः पाथोधिं न विलंघयेत् ॥१२॥ लक्षणादिमहाशास्त्राभ्यासात् ते कोविदाधिपाः। अभूवन भूपरिख्याताःप्रज्ञायाःकिं हिदुष्करम्॥१३॥ पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् । नयचक्रमहाग्रन्थः पूर्वाच्चक्रे तमोहरः ॥१४॥ विश्रामरूपास्तिष्ठन्ति तत्रापि द्वादशारकाः । तेषामारम्भपर्यन्ते क्रियते चैत्यपूजनम् ॥१५॥ किंचित्पूर्वगतत्वाच्च नयचक्रं विनाऽपरम् ।
पाठिता गुरुभिः सर्वं कल्याणीमतयोऽभवन् ॥ १६ !।-त्रिभिविशेषकम् । एष मल्लो महाप्राज्ञस्तेजसा हीरकोपमः । उन्मोच्य पुस्तकं बाल्यात् स स्वयं वाचयिष्यति ॥१७॥ तत्तस्योपद्रवेऽस्माकमनुतापोऽतिदुस्तरः । प्रत्यक्षं तज्जनन्यास्तज्जगदे गुरुणा च सः ॥१८॥ वत्सेदं पुस्तकं पूर्वं निषिद्धं मा विमोचयेः । निषिध्येति विजहस्ते तीर्थयात्रां चिकीर्षवः ॥१९॥ मातुरप्यसमक्षं स पुस्तकं वारितद्विषन् । उन्मोच्य प्रथमे पत्रे आर्यामेनामवाचयत् ॥२०॥
तथाहिविधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् ।
जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥२१॥ अर्थं चिन्तयतोऽस्याश्च पुस्तकं श्रुतदेवता । पत्रं चाच्छेदयामास दुरन्ता गुरुगी:क्षति: ॥२२॥ इतिकर्तव्यतामूढो मल्लश्चिल्लत्वमासजत् । अरोदीच्छशवस्थित्या किं बलं दैवतैः सह ॥२३॥ पृष्टः किमिति मात्राह मवृत्तात् पुस्तकं ययौ । संघो विषादमापेदे ज्ञात्वा तत्तेन निर्मितम् ॥२४॥ आत्मनः स्खलितं साधु समारचयते स्वयम् । विचार्येति सुधीर्मल्ल आराप्नोत् श्रुतदे ताम् ॥२५॥ गिरिखण्डलनामास्ति पर्वतस्तद्गुहान्तरे । रूक्षनिष्पावभोक्ता स षष्ठपारणकेऽभवत् ॥२६॥ १ N निबिडाध्याय प्रवृत्तं। २ A धान्यदानाप्ति°। ३ N जिनयशो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org