Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 221
________________ ९१० प्रभावकचरिते मल्लवादिसूरिचरितम् एवमप्यर्दित: संघो वात्सल्याज्जननीयुतः। ईदृक् श्रुतस्य पात्रं हि दुःप्राणं मा विशीर्यताम् ॥२७|| विकृति ग्राहितस्तेन चतुर्मासिकपारणे । साधवस्तत्र गत्वाऽस्य प्रायच्छन् भोजनं मुनेः ॥२८॥ श्रुतदेवतया संघसमाराधितया ततः । ऊचेऽन्यदा' परीक्षार्थं 'के मिष्टा' इति भारती ॥२९॥ 'वल्ला' इत्युत्तरं प्रादान मल्लः फल्लतपोनिधिः । षण्मासान्ते पुनः प्राह वाचं 'केनेति' तत्पुरः ॥३०॥ उक्त 'गुड-घृतेनेति' धारणातस्तुतोष सा । वरं वृण्विति च प्राह तेनोक्तं यच्छ पुस्तकम ॥३२॥ श्रुताधिष्ठायिनी प्रोचेऽवहितो मद्वचः शृणु । ग्रन्थेऽत्र प्रकटे कुयुद्धेषिदेवा उपद्रवम् ॥३२॥ श्लोकेनैकेन शास्त्रस्य सर्वमर्थं ग्रहीष्यसि । इत्युक्त्वा सा तिरोधत्त गच्छं मल्लश्च सङ्गतः ॥३३॥ नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्ग्रन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥३४॥ शास्त्रस्यास्य प्रवेशं च संघश्चके महोत्सवात् । हस्तिस्कन्धाधिरूढस्य प्रौढस्येव महीशितुः ॥३५॥ ६२. अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् । सूरित्वे स्थापितो मल्लः श्राद्धरभ्यर्थ्य सद्गुरुम् ॥३६॥ तथा 'जितयशोनामा प्रमाणग्रन्थमादधे । अल्लभूप सभे वादिश्रीनन्दकगुरोगिरा ॥३७॥ शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे । न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् ॥३८॥ यक्षेण संहिता चक्रे निमित्ताष्टाङ्गबोधनी। सर्वान् प्रकाशयत्यर्थान् या दीपकलिका यथा ॥३९|| मल्लः समुल्लसन्मल्लीफुल्लवेल्लद्यशोनिधिः । शुश्राव स्थविराख्यानात् न्यक्कारं बौद्धतो गुरोः ॥४०॥ अप्रमाणैः प्रयाणैः स भृगुकच्छं समागमत् । संघः प्रभावनां चक्र प्रवेशादिमहोत्सवैः ॥४१॥ बुद्धानन्दस्ततो बौद्धानन्दमद्भतमाचरत् । श्वेताम्बरो मया वादे जिग्ये दर्प वहन्नमुम् ॥४२॥ यस्योन्नमत्यपि भ्रूवलेपभरभारिता। जगद्धृष्टं कृपापात्रं मन्यते स धरातलम् ॥४३।। जैन|नागतान् श्रुत्वा विशेषादुपसर्गकृत् । संघस्याथ महाकोशो विशां वृन्दैरवीवदत् ॥४४॥ पूर्वजः श्वेतभिक्षूणां वादमुद्राजयोद्धरः । स्याद्वादमुद्रया सम्यगजेयः परवादिभिः ॥४५॥ परं सोऽपि मयात्मीयसिद्धान्तः प्रकटीकृतैः।कलितश्चुलुके कुम्भोद्भवेनेव पयोनिधिः ॥ ४६।।-युग्मम् । किं करिष्यति बालोऽसावनालोकितकोविदः । गेहेनर्दी सारमेय इवासारपराक्रमः ॥४७॥ काचित्तस्यापि चेच्छक्तिस्ततो भूपसभापुरः । स्वं दर्शयतु यनैणं वृकवद् ग्रासमानये ॥४८॥ मल्लाचार्य इति श्रुत्वा लीलया सिंहवत् स्थिरः । गम्भीरगीर्भरं प्राह ध्वस्तगर्वो द्विषन्नृणाम् ॥४९॥ जैनो मुनिः शमी कश्चिदविवादावदातधीः । जितो जित इति स्वेच्छावादोऽयं किं घटापटुः ॥५०॥ अथवास्तु मुधा चित्तावलेपं शल्यवद् दृढम् । अलमुद्धर्तुमेतस्य सज्जोऽस्मि विलसज्जयः ॥५१॥ सज्जनो मे सुहृच्चापि ज्ञास्ये स्थास्यति चेत्पुरः । तिष्ठन् स्वकीयगेहान्तर्जनो भूपेऽपि कद्वदः॥५२॥ प्रत्यक्ष प्राश्निकानां तन्मध्ये भूपसभं भृशम् । अनूद्यतां यथा प्रज्ञाप्रामाण्यं लभ्यते ध्रुवम् ॥५३॥ इत्याकर्ण्य वचः स्मित्वा बुद्धानन्दोऽप्युवाच च। वावदूकः शिशुप्रायः कस्तेन सह संगरः ॥५४॥ अस्तु वासौ निराकृत्य एव मे द्विषदन्वयी । ऋणस्तोकमिवासाध्यः कालेनासौ हि दुर्जयः ॥५५॥ ततः क्रूरे मुहूर्ते च तौ वादि-प्रतिवादिनौ। संसद्याजग्मतुः सभ्याः पूर्ववादं लघोर्ददुः ॥५६।। मल्लाचार्यः स षण्मासी यावत् प्राज्ञार्यमावदत् । नयचक्रमहाग्रन्थाभिप्रायेणात्रुटद्वचाः ।।५७|| नावधारयितुं शक्तः सौगतोऽसौ गतो गृहम् । मल्लेनाप्रतिमल्लेन जितमित्यभवन् गिरः ॥५८॥ १ तदा । २ C° मास्यन्ते । ३ N जिनयशो' । ४ C अल्लूभूप° । ५ A गुरौ । ६ B N सुहृद्वापि । ७ A वावदूकशिशुप्रायः । For Private & Personal use only. Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252