Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
२१३
प्रभावकरिते विजयसिंहसूरिचरिते मल्लवादिसमयोल्लेखः एतत्सामर्थ्यवशाद् भृगुपुरमेतन्न भङ्गमाप्नोति ।
अतिसुरभिपुष्पफलरम्यमेतदिह विजितपरनगरम् ॥७२॥ सकलकुसुमावचयं विचिन्वती प्रतिदिनं जिनार्चायै ।।
__परसुरपूजनविघ्नं विदधे संतापदं लोके ॥७३॥ श्रीसंघप्रार्थनया श्रीमत्कलहंससूरयस्तां च । आर्यसुहस्तिविनेयाः संस्तभ्य निवारयामासुः ॥७४॥ सम्पतिराजा च पुनर्जीर्णोद्धारं चकार तीर्थेऽस्मिन् । मिथ्यादृष्टिव्यन्तरवृन्दः तत्रोपससृजे च ॥७५॥ श्रीगुणसुन्दरशिष्यैर्निवारितास्ते च कालिकाचायः ।।
पञ्चाधिकविंशतियोजनान्तरा स्वप्रभावेन ॥७६॥ श्रीसिद्धसेनसूरेर्दिवाकराद् बोधमाप्य तीर्थेऽस्मिन् । उद्धारं ननु विदधे राजा श्रीविक्रमादित्यः ॥७७॥ कालिकसूरिःप्रतिमा सुदर्शनाया व्यधापयद यां प्राक् ।
साऽऽकाशे गच्छन्ती निषेधिता सिद्धसेनेन ॥७८॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते । वर्षाणां समजायत श्रीमानाचार्यखपुटगुरुः ॥७९॥ मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रभोस्तीर्थम् ।।
मोचितमिह ताथागतमतस्थितेभ्यश्च वादिभ्यः ॥८॥ श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेऽतिगते ।
पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः ॥८१॥ भङ्गस्तुरष्कविहितस्तस्मात् ते भृगुपुरं विनाशयितुम् ।
आगच्छन्तो देव्या निवारिताः श्रीसुदर्शनया ॥८२॥ श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्वयन्तरांश्चापि ||८३॥ श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्धधार पुनः । श्रीपादलिप्तसूरिर्वजप्रतिष्ठां व्यधात् तत्र ॥४॥ प्रत्यक्षीभूय तयोः पुरतो नाटयं सुदर्शना विदधे ।।
विंशतितमतीर्थेश्वरनिरवधिबहुमानशृङ्गारा ॥८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252