SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१३ प्रभावकरिते विजयसिंहसूरिचरिते मल्लवादिसमयोल्लेखः एतत्सामर्थ्यवशाद् भृगुपुरमेतन्न भङ्गमाप्नोति । अतिसुरभिपुष्पफलरम्यमेतदिह विजितपरनगरम् ॥७२॥ सकलकुसुमावचयं विचिन्वती प्रतिदिनं जिनार्चायै ।। __परसुरपूजनविघ्नं विदधे संतापदं लोके ॥७३॥ श्रीसंघप्रार्थनया श्रीमत्कलहंससूरयस्तां च । आर्यसुहस्तिविनेयाः संस्तभ्य निवारयामासुः ॥७४॥ सम्पतिराजा च पुनर्जीर्णोद्धारं चकार तीर्थेऽस्मिन् । मिथ्यादृष्टिव्यन्तरवृन्दः तत्रोपससृजे च ॥७५॥ श्रीगुणसुन्दरशिष्यैर्निवारितास्ते च कालिकाचायः ।। पञ्चाधिकविंशतियोजनान्तरा स्वप्रभावेन ॥७६॥ श्रीसिद्धसेनसूरेर्दिवाकराद् बोधमाप्य तीर्थेऽस्मिन् । उद्धारं ननु विदधे राजा श्रीविक्रमादित्यः ॥७७॥ कालिकसूरिःप्रतिमा सुदर्शनाया व्यधापयद यां प्राक् । साऽऽकाशे गच्छन्ती निषेधिता सिद्धसेनेन ॥७८॥ श्रीवीरमुक्तितः शतचतुष्टये चतुरशीतिसंयुक्ते । वर्षाणां समजायत श्रीमानाचार्यखपुटगुरुः ॥७९॥ मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रभोस्तीर्थम् ।। मोचितमिह ताथागतमतस्थितेभ्यश्च वादिभ्यः ॥८॥ श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेऽतिगते । पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः ॥८१॥ भङ्गस्तुरष्कविहितस्तस्मात् ते भृगुपुरं विनाशयितुम् । आगच्छन्तो देव्या निवारिताः श्रीसुदर्शनया ॥८२॥ श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्वयन्तरांश्चापि ||८३॥ श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्धधार पुनः । श्रीपादलिप्तसूरिर्वजप्रतिष्ठां व्यधात् तत्र ॥४॥ प्रत्यक्षीभूय तयोः पुरतो नाटयं सुदर्शना विदधे ।। विंशतितमतीर्थेश्वरनिरवधिबहुमानशृङ्गारा ॥८५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001110
Book TitleDvadasharam Naychakram Part 3 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1988
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy