________________
७. अथ [प्रबन्धकोशे] श्रीमल्लवादिप्रबन्धः' श्रीइन्द्रभूतिमानम्य प्रभावकशिरोमणेः । श्रीमल्लवादिसूरीन्दोश्चरितं कीर्त्यते मया ॥१॥ खेटाभिधं महास्थानमस्ति गूर्जरमण्डले । देवादित्याह्वयस्तत्र विप्रोऽभूद्वेदपारगः ॥२॥ सुभगाख्या सुता तस्य विधवा बालकालतः । कस्मादपि गुरोर्मन्त्रं सौरं सा प्राप भक्तिभाक् ॥३॥ आकृष्टस्तेन मन्त्रेण भास्करस्तामुपागमत् । तद्भोगलाभादापन्नसत्त्वा सा न चिरादभूत् ॥४॥ वैक्रियेभ्यः सुराङ्गेभ्यो गर्भो यद्यपि नोद्भवेत् । तदानीं त्वौदारिकाङ्गधातुयोगात्तु सम्भवी ॥५॥ आपाण्डुगण्डफलकां ग्लानाङ्गी वीक्ष्य तां पिता। वभाषे किमिदं वत्से ! निन्द्यमाचरितं त्वया? ॥६॥ सा प्राह स्म पितर्नेयं प्रमादविकृतिर्मम । मन्त्राकृष्टागतोष्णांशुन्यासः पुनरयं बलात् ॥७॥ इत्युक्तोऽपि विषण्णात्मा देवादित्यः कुकर्मणा । तां पुत्रीं प्रेषयामास सभृत्यां वलभी पुरीम् ॥८॥ कालेन तत्र साऽसूत पुत्रं पुत्रीं च सुद्युतम् । तत्रैवोवास सुचिरं जनकार्पितजीविका ॥९॥ क्रमेण ववृधाते तो पुत्रौ बालार्कतेजसौ । यावदष्टौ व्यतिक्रान्ता वत्सराः क्षणवत्तयोः ॥१०॥ तावदध्यापकस्यान्ते पठितुं तौ निवेशितौ । कलहेर्भ निष्पितृकमूचिरे लेखशालिकाः ॥११॥ तदिरा खिद्ममानोऽर्भः पप्रच्छ जननीं निजाम् । किं मातर्नास्ति मे तातो येन लोकोक्तिरीदृशी ॥१२॥ माता जगाद नोवेद्भि किं पीडयसि पृच्छया। ततः खिन्नः स सत्त्वाढयो मर्तुमैच्छद्विषादिभिः ॥१३॥ साक्षादागत्य तं भानुरूचेऽहं वत्स ! ते पिता । पराभवकरो यस्ते तस्याहं प्राणहारकः ॥१४॥ इत्युक्त्वा कर्करं सूक्ष्ममेकं तस्य समार्पयत्। ताड्योऽनेन त्वया द्वेषी सद्यो मतंति चादिशत् ॥१५॥ तेन कर्करशस्त्रेण बाल: स बलवत्तरः । विब्रुवन्तं विब्रुवन्तमवधील्लेखशालिकम् ॥१६॥ वलभीपुरभूपेन श्रुतो बालवधः स तु । कुपितस्तं शिशु सद्यो जनैः स्वान्तिकमानयत् ॥१७॥ उक्तश्च-रे ! कथं हंसि नृशंस ! शिशुकानमून् ? । बाल: प्रत्याह-न परं बालान्हन्मि नृपानपि ॥१८॥ इत्थं वदन् महीपालमहन् कर्करकेण तम् । मतस्य तस्य साम्राज्ये स राजाऽजनि विक्रमी ॥१९॥ शिलादित्य इति ख्यातः सुराष्ट्राराष्ट्रभास्करः । लेभे सूर्याद्वरं बाढं परचक्रोपमर्द्दकम् ॥२०॥ निजां स्वसारं स ददौ भृगुक्षेत्रमहीभुजे । असूत सा सुतं दिव्यतेजसं दिव्यलक्षणम् ॥२१॥ शत्रुञ्जये गिरौ चैत्योद्धारमारचयच्च सः । श्रेणिकादिश्रावकाणां श्रेणावात्मानमानयत् ॥२२॥ कदाचिदागतास्तत्र बौद्धास्तर्कमदोगुराः । ते शिलादित्यमगदन्-सन्ति श्वेताम्बरा इमे ॥२३॥ वादे जयन्ति यद्यस्मांस्तदेते सन्तु नीवृति । वयं यदि जयामोऽमस्तदा गन्तव्यमेतकैः ॥२४॥ दैवयोगाज्जितं बौद्धः सर्वे श्वेताम्बराः पुनः । विदेशमाशिश्रियिरे पुनः कालबलाथिनः ॥२५॥ शिलादित्यनृपो बौद्धान् प्रपूजयति भक्तितः । शत्रुञ्जये च ऋषभस्तैर्बुद्धीकृत्य पूजितः ॥२६॥ इतश्च सा शिलादित्यभगिनी भर्तृमृत्युतः । विरक्ता व्रतमादत्त सुस्थिताचार्यसन्निधौ ॥२७॥ अष्टवर्षं निजं बालमपि व्रतमजिग्रहत् । सामाचारीमपि प्राज्ञं किञ्चित्किञ्चिदजिज्ञपत् ॥२८॥ एकदा मातरं साध्वीं सोऽपच्छदभिमानवान् । अल्पः कथं नः सोऽयं प्रागप्यल्पोऽभवत्कथम् ॥२९॥ १ अस्मिन् प्रबन्धे दन्तकथात्मक स्वरूम प्राचुर्येण वर्तते । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org