________________
प्रबन्धकोशे मल्लवादिप्रबन्धः साऽप्युदश्रुरभाषिष्ट-वत्स ! किं वच्मि पापिनी । श्रीश्वेताम्बरसङ्घोऽभूद् भूयानपि पुरे पुरे ॥३०॥ तादृक्प्रभावनावीरसूरीन्द्राभावतः परैः । स्वसात्कृतः शिलादित्यो भूपालो मातुलस्तव ॥३१॥ तीर्थं शत्रुञ्जयाह यद्विदितं मोक्षकारणम् । श्वेताम्बराभावतस्तद् बौद्धैर्भूतैरिवाश्रितम् ॥३२॥ विदेशवासिनः श्वेताम्बराः खण्डितडम्बराः । क्षिपन्ति निहतौजस्काः कालं कचन केचन ॥३३॥ इति श्रुत्वाऽकुपद् बालस्तथागतभटान् प्रति । प्रतिज्ञां च चकारोच्चैः प्रावडम्भोधरध्वनिः ॥३४॥ नोन्मूलयामि चेद् बौद्धान नदीरय इव द्रुमान् । तदा भवामि सर्वज्ञध्वंसपातकभाजनम् ॥३५॥ इत्युक्त्वाऽम्बां समापृच्छय बाल: कालानलद्युतिः । मल्लनामा गिरिं गत्वा तेपे तीव्रतरं तपः ।।३६।। आसन्नग्रामभक्षेण पारणं च चकार सः । दिनैः कतिपयैस्तच्च जज्ञौ शासनदेवता ॥३७॥ भूत्वा व्योमनि साऽवादीत्-के मिष्टाः ?, सोऽपि बालकः ।
तच्छ्रुत्वाऽऽख्यत्सानुभवं वल्ला' इति खदत्तदक् ॥३८॥ षण्मास्यन्ते पुनः सोचे खस्था 'केन सहे' त्यथ? । बालर्षिरप्यभाषिष्ट 'समं घृतगुडैः शुभैः' ।।३९।। अवधारणशक्त्या तं योग्यं शासनदेवता । प्रत्यक्षा न्यगदद्वत्स ! भूया: परमतापहः ॥४०।। नयचक्रस्य तर्कस्य पुस्तकं लाहि मानद ! । वाणी सेत्स्यति ते सम्यक् कुतर्कोरगजाङ्गुली ॥४१॥ भूमौ मुमोच तं तर्कपुस्तकं बालको मुनिः । प्रमादः सुलभस्तत्र वयोलीलाविशेषत: ॥४२॥ रुष्टा शासनदेव्यूचे विहिताशातना त्वया । सान्निध्यं ते विधाताऽस्मि प्रत्यक्षीभविता न तु ॥४३।। तं लब्ध्वा पुस्तकं मल्लवादी देदीप्यते स्म सः। शस्त्रं पाशुपतमिव मध्यमः पाण्डुनन्दनः ॥४४।। आगत्य वलभीद्रङ्गं सुराष्ट्राराष्ट्रभूषणम् । शिलादित्यं युगप्रान्तादित्यद्युतिरुवाच सः ॥४५।। बौद्ध मुधा जगज्जग्धं प्रतिमल्लोऽहमुत्थितः । अप्रमादी मल्लवादी त्वदीयो भगिनीसुतः ॥४६।। शिलादित्यनृपोपान्ते बौद्धाचार्येण वाग्मिना । वादिवृन्दारकश्चक्रे तर्कबर्करमुल्बणम् ॥४७॥ मल्लवादिनि जल्पाके नयचक्रबलोल्बणे । हृदये हा(धा ?)रयामास षण्मासान्ते स शाक्यराट् ॥४८।। षण्मासान्तनिशायां स स्वं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य कोशात्किञ्चिदवाचयत् ॥४९।। चिन्ताचक्रहते चित्ते नार्थांस्तान्धर्तुमीश्वरः । बौद्धः स चिन्तयामास प्रातस्तेजोवधो मम ॥५०॥ श्वेताम्बरस्फुलिङ्गस्य किञ्चिदन्यदहो! महः।निर्वासयिष्यन्तेऽमी हा! बौद्धाः साम्राज्यशालिनः ५१ धन्यास्ते ये न पश्यन्ति देशभङ्ग कुलक्षयम् । परहस्तगतां भार्यां मित्रं चापदि संस्थितम् ॥५२॥ इति दुःखौघसंघट्टाद्विदद्रे तस्य हृत् क्षणात् । नृपाह्वानं समायातं प्रातस्तस्य द्रुतं द्रुतम् ॥५३॥ नोद्घाटयन्ति तच्छिष्या गृहद्वारं वराककाः । मन्दो गुरुर्नाद्य भूपसभामेतेति भाषिणः ॥५४॥ तदत्वा तत्र तैरुक्तं श्रुत्वा तन्मल्ल उल्लसन् । अवोचच्च शिलादित्यं मृतोऽसौ शाक्यराट् शुचा॥५५॥ स्वयं गत्वा शिलादित्यस्तं तथास्थमलोकत । बौद्धान्प्रावासयद्देशाद्धिक प्रतिष्ठाच्युतं नरम् ॥५६।। मल्लवादिनमाचार्यं कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन् सर्वानाजूहवन्नृपः ॥५७।। शत्रुजये जिनाधीशं भवपञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायत्तं यात्रां प्रावर्तयन्नृपः ॥५८॥ कालान्तरे तत्र पुरे रङ्को नामाभवद्वणिक् । तस्य कापटिको हट्टे न्यासीचक्रे महारसम् ।।५९।। रसेन तेन स्पृष्टस्य लोहस्य तपनीयताम् । स दृष्टा हट्टसदनपरावर्त चकार च ॥६०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org