Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 220
________________ ९०९ १०. प्रभावकचरिते श्रीमल्लवादिसूरिचरितम् । ६१. संसारवाद्धिविस्तारानिस्तारयतु दुस्तरात् । श्रीमल्लवादिसूरिवों यानपात्रप्रभः प्रभुः ॥ १।। गौः सत्तारघना यस्य पक्षाक्षीणलसद्भुवि । अवक्त्रा लक्षभेत्री च जीवामुक्ता सुपर्वभृत् ॥ २॥ जडानां निबिडाध्यायप्रवृत्तौ' वृत्तमद्भुतम् । प्रमाणाभ्यासतः ख्याते दृष्टान्तः किंचिदुच्यते ॥ ३ ॥ रेणुप्राकारतुङ्गत्वाद् रथेनागच्छतो रवेः । रथाङ्गमिव संलग्नं शकुनीतीर्थनाभिभृत् ॥ ४॥ हारनिकरैर्युक्तं वप्रनेमिविराजितम् । पुरं श्रीभृगुकच्छाख्यमस्ति स्वस्तिनिकेतनम् ॥ ५ ॥ चारुचारित्रपाथोधिशमकल्लोलकेलितः । सदानन्दो जिनानन्दः सूरिस्तत्राच्युतः श्रिया ॥ ६ ॥ अन्यदा धनदानाप्तिमत्तश्चित्ते छलं वहन् । चतुरङ्गसभावज्ञामज्ञातमदविभ्रमः ॥ ७ ॥ चैत्ययात्रासमायातं जिनानन्दमुनीश्वरम् ।। जिग्ये वितंडया बुद्धया नन्दाख्यः सौगतो मनिः॥ ८॥-यग्मम । पराभवात् पुरं त्यक्त्वा जगाम वलभी प्रभुः । प्राकृतोऽपि जितोऽन्येन कस्तिष्ठेत् तत्पुरांतरा ॥९॥ तत्र दुर्लभदेवीति गुरोरस्ति सहोदरी। तस्याः पुत्रास्त्रयः सन्ति ज्येष्ठोऽजितयशोऽभिधः ॥१०॥ द्वितीयो यक्षनामाभून् मल्लनामा तृतीयकः । संसारासारता चैषां मातुलैः प्रतिपादिता ॥११॥ जनन्या सह ते सर्वे बुद्धा दीक्षामथादधुः । संप्राप्ते हि तरण्डे कः पाथोधिं न विलंघयेत् ॥१२॥ लक्षणादिमहाशास्त्राभ्यासात् ते कोविदाधिपाः। अभूवन भूपरिख्याताःप्रज्ञायाःकिं हिदुष्करम्॥१३॥ पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् । नयचक्रमहाग्रन्थः पूर्वाच्चक्रे तमोहरः ॥१४॥ विश्रामरूपास्तिष्ठन्ति तत्रापि द्वादशारकाः । तेषामारम्भपर्यन्ते क्रियते चैत्यपूजनम् ॥१५॥ किंचित्पूर्वगतत्वाच्च नयचक्रं विनाऽपरम् । पाठिता गुरुभिः सर्वं कल्याणीमतयोऽभवन् ॥ १६ !।-त्रिभिविशेषकम् । एष मल्लो महाप्राज्ञस्तेजसा हीरकोपमः । उन्मोच्य पुस्तकं बाल्यात् स स्वयं वाचयिष्यति ॥१७॥ तत्तस्योपद्रवेऽस्माकमनुतापोऽतिदुस्तरः । प्रत्यक्षं तज्जनन्यास्तज्जगदे गुरुणा च सः ॥१८॥ वत्सेदं पुस्तकं पूर्वं निषिद्धं मा विमोचयेः । निषिध्येति विजहस्ते तीर्थयात्रां चिकीर्षवः ॥१९॥ मातुरप्यसमक्षं स पुस्तकं वारितद्विषन् । उन्मोच्य प्रथमे पत्रे आर्यामेनामवाचयत् ॥२०॥ तथाहिविधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥२१॥ अर्थं चिन्तयतोऽस्याश्च पुस्तकं श्रुतदेवता । पत्रं चाच्छेदयामास दुरन्ता गुरुगी:क्षति: ॥२२॥ इतिकर्तव्यतामूढो मल्लश्चिल्लत्वमासजत् । अरोदीच्छशवस्थित्या किं बलं दैवतैः सह ॥२३॥ पृष्टः किमिति मात्राह मवृत्तात् पुस्तकं ययौ । संघो विषादमापेदे ज्ञात्वा तत्तेन निर्मितम् ॥२४॥ आत्मनः स्खलितं साधु समारचयते स्वयम् । विचार्येति सुधीर्मल्ल आराप्नोत् श्रुतदे ताम् ॥२५॥ गिरिखण्डलनामास्ति पर्वतस्तद्गुहान्तरे । रूक्षनिष्पावभोक्ता स षष्ठपारणकेऽभवत् ॥२६॥ १ N निबिडाध्याय प्रवृत्तं। २ A धान्यदानाप्ति°। ३ N जिनयशो । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252